SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥१३॥ e CSSTOLARULHOS सुप्ता अपि पूज्यन्ते त्रिवेलं । कैश्चिचामुण्डात्रिपुरावर्जिताः षण्मातर एव पूज्यन्ते । एता मातृः पूजयित्वा इति विभागः १ पठेत्-"ब्राहयाद्या मातरोऽप्यष्टौ खखास्त्रबलवाहनाः । षष्ठीसंपूजनात्पूर्व कल्याणं ददतां शिशोः॥१॥" षष्ठीसं. ततो मातृस्थापनाग्रभूमौ चन्दनलेपस्थापनया षष्ठीम्बारूपां स्थापयेत् । तां च दधिचन्दनाक्षतदूर्वाभिर येत् । ततश्च गुरु पुष्पहस्तः "ॐ ऐं ह्रीं षष्ठि आम्रवनासीने कदंबवनविहारे पुत्रद्वययुते नरवाहने श्यामाङ्गि इह आगच्छ २ खाहा।" मातृवदस्या अपि पूजा । ततः शिशुमातृसहिताः कुलवृद्धा अविधवा मङ्गलगानपरायणाः वाद्येषु वाद्यमानेषु षष्ठीरात्रि जाग्रति । ततः प्रातः "भगवति पुनरागमनाय स्वाहा” इति प्रत्येक नामपूर्व गुरुर्मातः षष्ठीं च विसर्जयेत् । तथा-"ॐ भगवति माहेश्वरि पुनरागमनाय स्वाहा” एवं सर्वत्र । ततो गुरुः शिशुं पञ्चपरमेष्ठिमन्त्रपूतजलैरभिषिञ्चन् वेदमश्रेणाशीर्वादयेत् । यथा-"ॐ अहं जीवोऽसि, अनादिरसि, अनादिकर्मभागसि, यत्त्वया पूर्व प्रकृतिस्थितिरसप्रदेशैराश्रववृत्त्या कर्मबद्धं तद्वन्धोदयोदीरणासत्ताभिः प्रतिभुव, माशुभकर्मोदयफलभुक्तरुच्छेकं दध्याः, नचाशुभकर्मफलभुक्त्या विषादमाचरेः, तवास्तु संवरवृत्त्या कर्मनिर्जरा अहं ॐ ॥” सूतके दक्षिणा नास्ति । “चन्दनं दधि दूर्वा च साक्षतं कुङ्कुमं तथा। वर्णिका हिङ्गलाद्याश्च पूजोपकरणानि च ॥१॥ नैवेद्यं सधवा नार्यो दर्भो भूम्यनुलेपनम् । षष्ठीजागरणाख्ये- स्मिन् संस्कारे वस्तु कल्पयेत् ॥२॥” इत्याचार्यश्रीवर्द्धमानसरिकृते आचारदिनकरे गृहिधर्मपूर्वायने षष्ठीजागरणसंस्कारकीर्तनो नाम षष्ठ उदयः॥६॥ R ॥१३॥ Jan Education Intern For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy