________________
ततः गन्धपुष्पधूपदीपाक्षतनैवेद्यदानपूर्व मन्त्रपाठपूर्व गन्धं गृह्ण २, पुष्पं गृह्ण २, धूपं गृह्ण २, दीपं गृह्ण २, अक्षतान् गृह्ण २, नैवेद्यं गृह्ण २ इत्येकैकवेलं मत्रपाठपूर्व एभिर्वस्तुभिर्भगवतीं पूजयेत् । अनयैव युक्त्या सप्तानां परासां मातृणां पूजनं । नवरं मन्त्राः- ॐ ह्रीं नमो भगवति माहेश्वरि शूलपिनाककपालखवाङ्गकरे चन्द्राईललाटे गजचर्मावृते शेषाहिबद्धकाञ्चीकलापे विनयने वृषभवाहने श्वेतवर्णे इह षष्ठीपूजने आगच्छ आगच्छ, शेषं पूर्ववत् ॥२॥” तथा “ॐ ह्रीं नमो भगवति कौमारि षण्मुखि शूलशक्तिधरे वरदाभयकरे मयूरवाहने गौरवणे इह षष्ठीपूजने आगच्छ आगच्छ, शेषं पूर्ववत् ॥३॥ ॐ ह्रीं नमो भगवति वैष्णवि शङ्खचक्रगदाशाईखड्ड करे गरुडवाहने कृष्णवर्णे इह षष्ठीपूजने आगच्छ २, शेषं पूर्ववत् ॥ ४॥ ॐ ह्रीं नमो भगवति वाराहि वराहीमुखि चक्रखगहस्ते शेषवाहने श्यामवर्णे इह षष्ठीपूजने आगच्छ २, शेषं पूर्ववत् ॥५॥ ॐ ह्रीं नमो भगवति इन्द्राणि सहस्रनयने वज्रहस्ते सर्वाभरणभूषिते गजवाहने सुराङ्गनाकोटिवेष्टिते काश्चनवणे इह षष्ठीपूजने आगच्छ २, शेषं पूर्ववत् ॥ ६॥ ॐ ह्रीं नमो भगवति चामुण्डे शिराजालकरालशरीरे प्रकटितदशने ज्वालाकुन्तले रक्तत्रिनेत्रे शूलकपालखड्गप्रेतकेशकरे प्रेतवाहने धूसरवणे इह षष्ठीपूजने आगच्छ २, शेषं पूर्ववत्॥७॥ ॐ ह्रीं नमो भगवति त्रिपुरे पद्मपुस्तकवरदाभयङ्करे सिंहवाहने श्वेतवर्णे इह षष्ठीपूजने, आगच्छ २ शेषं पूर्ववत्॥८॥ एतावत्पर्यन्तमधिकम् । एवं यथा ऊर्ध्वाः पूज्यन्ते, तेनैव मन्त्राचनप्रयोगेण निविष्टाः
१ गृहाणेत्यर्थः ।
आ.दि.३
Jan Education Internal
For Private & Personal Use Only
www.jainelibrary.org