SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः षष्ठ उदयः। अथ षष्टीसंस्कारविधिः॥६॥ विभागः१ षष्ठीसं. ॥१२॥ यथा षष्ठे दिने सन्ध्यासमये गुरुः प्रसूतिगृहमागत्य षष्ठीपूजनविधिमारभेत् । न सूतकं तत्र गण्यं । यत उक्तं-श्लोकः । “खकुले तीर्थमध्ये च तथावश्ये बलादपि । षष्ठीपूजनकाले च गणयेन्नैव सूतकम् ॥१॥ इति वचनबलात्सूतिकागृहभित्तिभागभूमिभागौ सधवाहस्तैर्गोमयानुलिप्तौ कारयेत् । ततो दृश्यशुक्रबृहस्पतिवर्तितदिग्भित्तिभागं खटिकादिभिर्धवलयेत् । तद्भमिभागं च चतुष्कमण्डितं कारयेत् । ततश्च धवलभित्तिभागे सधवाकरैः कुकमहिङ्गुलादिभिर्वर्णकैरष्टमातृरू; लेखयेत् । अष्ट चोपविष्टाः । अष्ट च प्रसुप्ताः। कुलकमान्तरे गुरुक्रमान्तरे षट् षट् लिख्यन्ते । ततश्च गुरु सधवाभिर्गीतमङ्गलेषु गीयमानेषु चतुष्के शुभासने समासीनोऽनन्तरोक्तपूजाक्रमेण मातृः पूजयेत् । नलिखवओ (2) "ॐ ह्रीं नमो भगवति ब्रह्माणि वीणापुस्तकपद्माक्षसूत्रकरे हंसवाहने श्वेतवर्णे इह षष्टीपूजने आगच्छ आगच्छ स्वाहा ॥१॥” इति त्रिवेलं पठित्वा पुष्पेणाहानं । ततः-"ॐ ह्रीं नमो भगवति ब्रह्माणि वीणापुस्तकपद्माक्षसूत्रकरे हंसवाहने श्वेतवर्णे मम सन्निहिता भव भव स्वाहा ॥” इति त्रिवेलं सन्निहितीकरणं । एवं मन्त्रपूर्वकं इह तिष्ठ तिष्ठ इति त्रिः स्थापनं ।। SARAN Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy