SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आचार- दिनकरः ॥११॥ मयीं चन्द्रमूर्ति स्थापयेत् । अन्यत्र गृहे तं च शशिनं शान्तिकादिप्रक्रमोक्तविधिना पूजयेत् । ततश्च तयैव विभागः १ सूर्यदर्शनरीत्या चन्द्रोदये प्रत्यक्षचन्द्रसंमुखं मातापुत्रौ नीत्वा वेदमन्त्रमुच्चरन् तयोश्चन्द्रं दर्शयति । चन्द्रस्य सूर्येन्दुद. वेदमत्रो यथा-"ॐ अहं चन्द्रोऽसि, निशाकरोऽसि, सुधाकरोसि, चन्द्रमा असि, ग्रहपतिरसि, नक्षत्रप|तिरसि, कौमुदीपतिरसि, निशापतिरसि, मदनमित्रमसि, जगज्जीवनमसि, जैवातृकोऽसि, क्षीरसागरोद्भवो-18 सि, श्वेतवाहनोऽसि, राजासि, राजराजोऽसि, औषधीगर्भोऽसि, वन्द्योऽसि, पूज्योऽसि, नमस्ते भगवन् ! अस्य कुलस्य ऋद्धिं कुरु, वृद्धिं कुरु, तुष्टिं कुरु, पुष्टिं कुरु, जयं कुरु, विजयं कुरु, भद्रं कुरु, प्रमोदं कुरु, श्रीशशाङ्काय नमः अहं ॐ॥” इति पठन् मातापुत्रयोश्चन्द्र दर्शयित्वा तिष्ठेत् । सा च सपुत्रा गुरूं नमस्कुर्यात्। गुरुराशीवादयति । यथा-"सर्वोषधीमिश्रमरीचिजाल: सर्वापदां संहरणप्रवीणः। करोतु वृद्धिं सकलेऽपि वंशे युष्माकमिन्दुः सततं प्रसन्नः ॥१॥” दक्षिणा मृतके नास्ति । ततोगुरुर्जिनप्रतिमाचन्द्रप्रतिमे विसर्जयेत् । नवरं कदाचित्तस्यां रजन्यां चतुर्दश्यमावास्यावशात्साभ्राकाशवशाद्वा चन्द्रोन दृश्यते तदापि पूजनं तस्यामेव सन्ध्यायां कार्य । दर्शनमपरस्यामपि रात्री चन्द्रोदये भवत् । “सूर्याचन्द्रमसोमूर्ती तत्पूजावस्तुसङ्गतम् । सूर्येन्दुदर्शने योग्यं संस्कारेऽत्र समाहरेत् ॥१॥” इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्म- ॥ ११ ॥ पूर्वायने सूर्येन्दुदर्शनसंस्कारकीर्तनो नाम चतुर्थ उदयः ॥ ४ ॥ +CCCCCCCACROSCARSACRENCY Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy