SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ 14- ACCORGACANCERKAR चतुर्थ उदयः। अथ सूर्येन्दुदर्शनसंस्कारविधिः॥ ४॥ __ यथा जन्मदिनादिनद्वये व्यतीते तृतीयेऽह्नि गुरुः समीपगृहेऽहंदर्चनपूर्व जिनप्रतिमाग्रतः स्वर्णताम्रमयी द्र रक्तचन्दनमयीं वा दिनकरप्रतिमा स्थापयेत् । तस्या अर्चनं अनन्तरोक्तशान्तिकपौष्टिकप्रतिष्ठापक्रमोक्तविधिना कुर्यात् । ततश्च लातां सुवसनां सभूषणां शिशुमातरं करद्वयधृतशिशुं प्रत्यक्षसूर्यसंमुखं नीत्वा सूर्यवेदमन्त्रमुच्चरन् मातापुत्रयोः सूर्य दर्शयति । सूर्यवेदमन्त्रो यथा-"ॐ अर्ह सूर्योऽसि, दिनकरोऽसि, सहसकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियंकरोऽसि, शिवङ्करोऽसि, जगचक्षुरसि, सुरवेष्टितोऽसि, मुनिवेष्टितोऽसि, विततविमानोऽसि, तेजोमयोऽसि, अरुणसारथिरसि, मार्तण्डोऽसि, द्वादशात्मासि, चक्रबान्धवोऽसि, नमस्ते भगवन् प्रसीदास्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरु कुरु, सन्निहितो भव अहं ॐ॥ इति पठति गुरौ, सूर्यमवलोक्य माता सपुत्रा गुरुं नमस्कुर्यात् । गुरुः सपुत्रां मातरमाशीर्वादयेत् । यथा आर्या"सर्वसुरासुरवन्द्यः कारयिता सर्वधर्मकार्याणाम् । भूयात् त्रिजगचक्षुर्मङ्गलदस्ते सपुत्रायाः ॥१॥" दक्षिणा सूतके नास्ति । ततो गुरुः स्वस्थानमागत्य जिनप्रतिमा स्थापितसूर्यं च विसर्जयेत् । मातापुत्री सूतकभयात्तत्र नानयेत् । तस्मिन्नेव दिवसे सन्ध्याकाले गुरुर्जिनपूजापूर्व प्रतिमाग्रतः स्फटिकरूप्यचन्दन 25AGAURUCAR-50 Jain Education Inter For Private & Personal use only | www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy