________________
आचारदिनकरः
विभागः१ विभ जन्मसं.
ISROGRAA%
CE
रक्षाभिमन्त्रणमन्त्रः-"ॐ ह्रीं श्रीं अंबे जगदंबे शुभे शुभकरे अमुं बालं भूतेभ्यो रक्ष रक्ष. ग्रहेभ्यो रक्ष रक्ष. पिशाचेभ्यो रक्ष रक्ष, वेतालेभ्यो रक्ष रक्ष, शाकिनीभ्यो रक्ष रक्ष, गगनदेवीभ्यो रक्ष रक्ष, दुष्टेभ्यो रक्ष रक्ष, शत्रुभ्यो रक्ष रक्ष, कार्मणेभ्यो रक्ष रक्ष, दृष्टिदोषेभ्यो रक्ष रक्ष, जयं कुरु कुरु, विजयं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं कुरु कुरु, कुलवृद्धिं कुरु कुरु, ॐ ह्रीं ॐ भगवति श्री अंबिके नमः।” अनेन सप्ताभिमन्त्रितां रक्षापोहलिकां कृष्णसूत्रेण बद्धा सलोहखण्डां सवरुणमूलखण्डां सरक्तचन्दनखण्डां सवराटिकां कुलवृद्धाभिः |शिशुहस्ते बन्धयेत् । “सांवत्सरो घटीपात्रं चन्दनं रक्तचन्दनम् । समीपैकान्तगेहं च सिद्धार्थलवणं तथा ॥१॥ कौशेयं कृष्णसूत्रं च कपर्दी गीतमङ्गलम् । लोहरक्षा तथा वस्त्रं दक्षिणार्थ धनानि च ॥२॥ स्वस्तिकाः कुलवृद्धाश्च जलं सर्वजलाशयात् । आनेयं जन्मसंस्कार एतद्वस्तु विचक्षणैः ॥३॥ इति जन्मसंस्कारविधिः । अथ कदाचिदाश्लेषाज्येष्ठामूलेषु गण्डान्ते भद्रायां शिशोर्जन्म भवति, तच तस्य तत्पित्रोः तस्य कुलस्य दुःखदारिद्यशोकमरणदम् । अतएव पिता कुलज्येष्ठश्च तद्विधाने अकृते शिशुमुखं नावलोकयेत् । तद्विधानकरणं प्रक्रमविशेषेण शान्तिकविधौ कथयिष्यते ॥ इत्याचार्यश्रीवर्द्धमानसूरिकते आचारदिनकरे गृहिधर्मपूर्वायने जातकर्मसंस्कारकीर्त्तनो नाम तृतीय उदयः ॥३॥
SPROSESSHOSHILASHUS80*
॥१०॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org