SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Artott स गुरुः समीपस्थो ज्यौतिषिकं जन्मक्षणपरिज्ञानाय निर्दिशेत् । तेनापि सम्यग् जन्मकालः करगोचरं विधा-1 यावधार्यः। ततश्च बालकपितृपितृव्यपितामहैरच्छिन्ने नाले गुरुज्योतिषिकश्च बहुभिर्वस्त्रभूषणवित्तादिभिः पूजनीयः। छिन्ने नाले सूतकं । गुरुर्बालकपितृपितामहादीनाशीर्वादयति । यथा-"ॐ अहं कुलं वो वर्द्धतां सन्तु शतशः पुत्रपौत्रप्रपौत्राः अक्षीणमस्त्वायुर्द्धनं यशःसुखं च अहं ॐ॥” इति वेदाशीः । तथा चोक्तं-"यो मेरुशृङ्गे त्रिदशाधिनाथैर्दैत्याधिनाथैः सपरिच्छदैश्च । कुम्भामृतैः संस्लपितःस देव आद्यो विदध्यात् कुलवर्द्धनं |च ॥१॥” ज्योतिषिकाशीर्वादो यथा-"आदित्यो रजनीपतिः क्षितिसुतः सौम्यस्तथा वाक्पतिः शुक्रः सूर्यसुतो विधुन्तुदशिखी श्रेष्ठा ग्रहाः पान्तु वः। अश्विन्यादिभमण्डलं तदपरो मेषादिराशिक्रमः कल्याणं पृथुकस्य वृद्धिमधिकां सन्तानमप्यस्य च ॥१॥” ततोऽवधारितजन्यलग्ने ज्योतिषिके खगृहं गते गुरुः सूतिकर्मणे कुल४.वृद्धाः सूतिकाश्च निर्दिशेत् । अन्यगृहस्थित एव बाललपनार्थ जलमभिमन्य दद्यात् । जलाभिमन्त्रणमत्रो यथा-ॐ अहं नमोऽहत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः ॥” "क्षीरोदनीरैः किल जन्मकाले यैर्मेरुशृङ्गे लपितो जिनेन्द्रः। स्लानोदकं तस्य भवत्विदं च शिशोमहामङ्गलपुण्यवृद्ध्यै ॥१॥" अनेन सप्तवेलं जलमभिमनयेत् । तेन जलेन कुलवृद्धाः स्लपयन्ति बालं। नालच्छेदश्च खकुलाचारेण सर्वेषां । ततो गुरुः खस्थानस्थ एव चन्दनरक्तचन्दनबिल्वकाष्ठादि दग्ध्वा भस्म कुर्यात् । तद भस्म श्वेतसर्षपलवणमिश्रितं पोहलिकायां बनीयात् । १ पूर्वत्रापीदृशः प्रयोग आयातः सर्वत्रैव द्वितीयास्थाने चतुर्थी तृतीया वा संगता । SAGA%AAAAAAAAAR Jain Education Internal For Private & Personal Use Only ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy