________________
आचारदिनकरः
च वर्णमुद्राष्टकं तथा ॥१॥ रूप्यमुद्राष्टकं चैव तयोरष्टाष्टकं पुनः । षोडशाख्या फलजातिः कुशस्ताम्बूलमुत्तमम् ॥ २॥ गन्धाः पुष्पाणि नैवेद्यं सधवागीतमङ्गलम् । वस्तु पुंसवने कार्य संस्कारप्रगुणं परम् ॥३॥” इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे गृहिधर्मपूर्वायने पुंसवनसंस्कारकीर्तनो नाम द्वितीय उदयः ॥२॥
विभागः१ जन्मसं.
CACANAGALA0ACCES
तृतीय उदयः।
अथ जन्मसंस्कारविधिः ॥ ३॥ जन्मकाले पूर्णेषु मासदिनेषु गुरुज्योतिषिकसहितः सूतिकागृहासन्नगृहे एकान्ते निष्कलकले स्त्रीबालप्रमुखप्रचाररहिते सघटिकापात्रे सदावहितचेताः पञ्चपरमेष्ठिजापपरायणस्तिष्ठेत् । अत्र च दिने पूर्व (न) तिथिवारनक्षत्रादि विलोक्यते जीवकर्मकालायत्तमेतत् । यतः-"जन्म मृत्युर्द्धनं दौस्थ्यं वस्त्रकाले प्रवर्तते ।। तदस्मिन् क्रियते हन्त चेतश्चिन्ता कथं त्वया॥१॥” उक्तं चागमे-श्रीवर्द्धमानस्वामिवाक्यम्-"समयं जम्मणकालं कालं मरणस्स कम्मइ सुरनाह । संपत्तजेण हंतीन अइसया वीअराएहिं ॥१॥" अतो जाते बालके
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org