SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ SAOSTUSASUTUSLAUGAROS द्वेषः पत्यौ समीपगे असमीपगे वा गर्भाधानकर्मणोऽनन्तरं धारिततद्वस्त्रवेषां तत्केशवेषां गुर्विणी निशाचतुर्थप्रहरे सतारके गगने मङ्गलगानमुखीभिः सभूषणाभिरविधवाभिरभ्यङ्गोद्वर्त्तनजलाभिषेकैः स्लपयेत् । ततश्च जाते प्रभाते तां गुर्विणीं भव्यवस्त्रगन्धमाल्यभूषणभूषितां साक्षिणीं विधाय गृहाहत्प्रतिमां तत्पतिना वा तद्देवरेण वा तत्कुल्येन वा स्वयं गुरुः पञ्चामृतलात्रेण बृहत्लात्रविधिना लपयेत् । ततः सहस्रमूलीलानं प्रतिमायाः कुर्यात् । तत्तीर्थोदकरलानं च तत्सर्वं स्नात्रोदकं स्वर्णरूप्यताम्रादिभाजने निधाय शुभासने सुखोपविष्टां गुर्विणी साक्षीभूतपतिदेवरादिकुलजां दक्षिणकरधृतकुशः कुशाग्रबिन्दुभिस्तेन लात्रोदकेन गुर्विणीशिरःस्तनोदराण्यभिषिञ्चन्नमुंवेदमन्त्रं पठेत्। “ॐ अर्ह नमस्तीर्थङ्करनामकर्मप्रतिबन्धसंप्राप्तसुरासुरेन्द्रपूजायार्हते आत्मने त्वमात्मायुःकर्मबन्धप्राप्यं तं मनुष्यजन्मगर्भावासमवाप्तोऽसि, तद्भवजन्मजरामरणगर्भवासविच्छित्तये प्राप्ताद्धर्मोऽईक्तः सम्यक्त्वनिश्चलः कुलभूषणः सुखेन तव जन्मास्तु । भवतु तव वन्मातापित्रोः कुलस्याभ्युदयः, ततः शान्तिः तुष्टिवृद्धिः ऋद्धिः कान्तिः सनातनी अहं ॐ ॥” इति वेदमन्त्रमष्टवारं पठन् गुर्विणीमभिषिञ्चेत् । ततो गुर्विण्यासनादुत्थाय सर्वजातिफलाष्टकं खर्णरूप्यमुद्राष्टकं प्रणामपूर्व जिनप्रतिमाग्रे ढोकयेत् । ततश्च गुरुपादौ प्रणम्य वस्त्रयुग्मं स्वर्णरूप्यमुद्राष्टकं क्रमुकाष्टकं सताम्बूलं गुरवे दद्यात् । ततो धर्मागारे साधुवन्दनं साधुभ्यो यथाशक्ति शुद्धान्नवस्त्रपात्रदानं कुलवृद्धेभ्यो नमस्कारः । इति पुंसवनसंस्कारविधिः। ततः खकुलाचारेण कुलदेवतादिपूजनम् । “पञ्चामृतस्नात्रवस्तु स्त्रीवस्त्राणि नवानि च। नवीनं वस्त्रयुग्म For Private & Personal Use Only Jain Education Inter www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy