SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat | अन्यच्च मलमासवर्ज्यमाह - सर्व विवर्जितं कर्म भानुलङ्घाधिमासयोः । पैतृकं त्वधिमासेपि कुर्यान्नो भानु लङ्घिते ॥ ३० ॥ यथा - अनित्यमनिमित्तं च दानं च महदादिकम् । अग्न्याधानाध्वरास्तीर्थादेवयात्रा मरेक्षम् ॥ ३१ ॥ देवारामतडागादिप्रतिष्ठा मौञ्जिबन्धनम् । अग्नीनां स्वीकृतिः काम्यवृषोत्सर्गस्य निष्क्रमः ||३२|| | राज्ञोभिषेकः प्रथमश्रूडाकर्मव्रतानि च । अन्नप्राशनमारम्भो गृहाणां च प्रवेशनम् ॥ ३३ ॥ व्रतारम्भसमाप्तिं च कर्म काम्यं च पाप्मनः । प्रायश्चित्तं च सर्वस्य मलमासे विवर्जयेत् ॥ ३४ ॥ तत्र सङ्घसमक्षं च विद्ध्यात् कल्पवाचनाम् । तथा केशापनयनं विधिस्तस्याभिधीयते ॥ ३५ ॥" यथा तत्र साधूनां केशापनयनं त्रिधा, क्षुरमुण्डनं कर्त्तरीमुण्डनं लोचश्च पक्षे २ कर्तरीमुण्डनम्, मासे २ क्षुरमुण्डनम्, चतुर्मासान्ते षण्मासान्ते वर्षान्ते वा लोच:, क्षुरमुण्डन कर्तरीमुण्डनयोरपि क्षमाश्रमणवन्दनकादि सर्व लोचवत् नवरं "दुक्करं कियं इगिणी साहिया" इति गुरुवचनं लोचं विना अन्यत्र न । “हस्तत्रये मृगज्येष्ठे पौष्णादित्यश्रुतिद्वये । क्षुरकर्म शुभं प्रोक्तं कार्योत्सुक्ये तु सर्वदा ॥ १ ॥ इह यदुक्तं कार्योत्सुक्ये तु सर्वदेति — “तीर्थे प्रेतक्रियायां च दीक्षायामोपपातिके । पितृमातृक्षये क्षौरे नक्षत्रादि न चिन्तयेत् ॥ १ ॥” तत्रोपनयनप्रव्रज्याचार्य पदस्था पनपर्युषणादिषु नियमाल्लोचमुण्डनादि कर्तव्यमेव । तत्र यदि क्षौरनक्षत्रं न स्यात् तथापि तत्कार्यौत्सुक्ये प्रो|क्तव्यतिरिक्तेऽपि नक्षत्रे लोचादिक्षुरकर्म विधेयम् । स च लोचः कैश्चिद्भाद्रपद पौषवैशाखेषु चातुर्मासिको विधी यते, कैश्चिच भाद्रपदफाल्गुनयोः षाण्मासिकः क्रियते, कैश्चित्सांवत्सरिको भाद्रपदे पर्युषणासन्न एव विधी - For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy