SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आचार- न तैलाभ्यञ्जनं कुर्यान्न वा कुन्तलधारणम् । न तुलं न निकामं च शयनं नाग्निसेवनम् ॥२॥ नोष्णतीक्ष्णा- Iविभागः१ दिनकरः म्लमधुरभोजनेच्छा रसोद्गमात् । न चान्यकायसंस्पर्श न पादत्राणमेव च ॥३॥ न शीतजलपानं च कुर्यान्नो ऋतुचर्या शान्तभोजनम् । रम्यनिर्वातगेहेषु न रतिं पशुवत्सु च ॥४॥ नारीषण्ढादिभिः संगं न कुर्वीत कदाचन। विधिः ॥१२९॥ नोष्णोदकादिभिः स्लानं न दीपोद्योतमर्शनम् ॥५॥ नाच्छादिते च शयनं नोर्णावस्त्रं विना भ्रमः । मूत्रनिष्ठीवनादीनां न च स्थापनमञ्जसा ॥६॥ पात्रे मात्रे च शुचये देहे भूमौ नखान्तरे । न स्थापयेजलावेशं कदाचन मनागपि ॥ ७॥ देहसंयमरक्षार्थ संग्रहं कम्बलादिना । कुर्वीत वस्त्रसंयुक्तं वस्त्रहीनं न कम्बलम् ॥८॥ मार्गाद्याषाढपर्यन्तं मासे मासे महर्षयः । विहारं कुर्वते तेषां स्थितिरेकत्र नोचिता ॥९॥ लेहद्वेषावसौभाग्यं धनस्थानपरिग्रहः । सुखासिका च साधूनां दोषा एकत्र संस्थितेः ॥१०॥ मासान्ते ऋतुपर्यन्ते ऋतुद्वित्रिषु चायने । वर्षान्ते वा मुनीन्द्राणां विहार उचितो ध्रुवम् ॥११॥ यत उक्तमागमे-सवत्सरं वावि परं पमाणं बीअं च वासं न तहिं पसज्जा । सुत्तस्स मग्गेण चरिज भिक्खू सुत्तस्स अत्यो जह आणवेइ F॥१२॥ विमृश्येति विहारेषु नालसाः स्युर्महर्षयः । अतोऽभिधीयते कश्चिद्विहारविधिरुत्तमः ॥१३॥ यथा । |विहारस्य कालो यथा-वर्षाशरदर्जिताश्च चत्वार ऋतवोऽद्भुताः । अमेघता सुभिक्षं च पथामपि मनोज्ञता ॥१२९॥ 81॥ १४ ॥ अविडरो नृपादीनां परचक्रावभावता । विहार ईदृशः कालो युज्यते यतिनां परम् ॥ १५॥ विहाहारयोग्या मुनयो यथा-नीरुजः करजङ्घाश्च गतिशक्तिगुणान्विताः । सर्वदेशस्थितिज्ञाश्च सर्वभाषाविचक्षणाः AISAXXXAURAKAL Jan Education Interna For Private & Personal use only jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy