________________
नन
ACCOCONOCRACANC00046
साधवश्चतुर्थषष्ठाष्टमभक्ताश्च मुनयः पुनरपि भिक्षाटनं विधाय भुञ्जते । भिक्षाटनभोजनविधिः पूर्ववत्, ततः सायमावश्यककर्म विधेयम् , चतुर्थे प्रहरे शेषे प्रतिलेखना प्रभातवत्, तदन्ते स्वाध्यायपाठश्च, ततो रजनीप्रथमयामे व्यतीते साधवः मुखवस्त्रिका प्रतिलिख्य "भयवं बहुपडिपुन्ना पोरसी राइ संथारए ठाह" इत्युक्वा शक्रस्तवं पठन्ति, ततः साधवो यथायोग्यसंस्तारके शेरते । शयनविधिश्चायम्-मुनिः संस्तारकं विधाय
युपविष्टः परमेष्ठिमनं जपेत् अन्यमिष्टमनं वा, ततः संकोचितकरचरणो वामबाहपधानेन वामपार्श्वन शेते । करपादादिप्रसारणे संकोचने च तदङ्गप्रतिलेखनां तत्स्थानप्रतिलेखनां च कुर्यात् । तथा रजनीप्रथमयामे व्यतीते ब्राह्ममुहर्तादर्वाक जाग्रदपि साधुः गाढवरपाठालापै न्यं जागरयेत् इत्युत्तराध्ययनरहस्यम् , इत्येवं मुनयो वतिन्यश्चाहोरात्रमवहिताः कषायविनिर्मुक्ताः समरसलीनाः संयमपालनं कुर्वते ॥ इत्याचार्यश्री-18 वर्द्धमानसूरिकते आचारदिनकरे यतिधर्मोत्तरायणे अहोरात्रचर्याकीर्तनो नाम त्रिंशत्तम उदयः॥३०॥
एकत्रिंशत्तम उदयः।
अथ साधूनामृतुचर्या व्याख्यानविधियुक्ता कथ्यते । सा यथा-"हेमन्तौ भवेत्साधुः प्रायो वसनवर्जितः । अल्पनिद्रस्तथाहारमल्पं भुञ्जीत कहिचित् ॥ १॥
Jan Education Interne
For Private & Personal use only
Kav.jainelibrary.org