SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ ७ ॥ Jain Education Inte प्राणोऽसि, जन्म्यसि, जन्मवानसि संसार्यसि, संसरन्नसि, कर्मवानसि कर्मबद्धोऽसि, भवभ्रान्तोऽसि भवसंविभ्रमिषुरसि, पूर्णाङ्गोऽसि, पूर्णपिण्डोऽसि, जातोपाङ्गोऽसि, जायमानोपाङ्गोऽसि, स्थिरो भव, नन्दिमान् भव, वृद्धिमान् भव, पुष्टिमान् भव, ध्यातजिनो भव, ध्यातसम्यक्त्वो भव, तत्कुर्या न येन पुनर्जन्मजराम| रणसङ्कलं संसारवासं गर्भवासं प्राप्नोषि अहं ॐ" इति मन्त्रेण दक्षिणकरधृतकुशाग्रतीर्थोदकबिन्दुभिः सप्तवेलं गुर्विणीं शिरसि शरीरे अभिषिञ्चेत् । ततः पञ्चपरमेष्ठिमन्त्रपठनपूर्व दंपती आसनादुत्थाप्य जिनप्रतिमापार्श्व नीत्वा शक्रस्तवपाठेन जिनवन्दनं कारयेत् । यथाशक्त्या फलवस्त्रमुद्रामणिस्वर्णादि जिनप्रतिमाग्रे ढोकयेत् । ततश्च गुर्विणी गुरवे स्वसंपत्त्या वस्त्राभरणद्रव्यखर्णादिदानं दद्यात् । ततश्च गुरुः सपतिकां गुर्विणीमाशीर्वादयेत् । यथा - "ज्ञानत्रयं गर्भगतोऽपि विन्दन् संसारपारैकनिबद्धचित्तः । गर्भस्य पुष्टिं युवयोश्च तुष्टिं युगादिदेवः प्रकरोतु नित्यम् ॥ १ ॥” ततश्च आसनादुत्थाप्य ग्रन्थि वियोजयेत् । ग्रन्थिवियोजनमन्त्रः“ॐ अर्ह - प्रन्थो वियोज्यमानेऽस्मिन् स्नेहग्रन्थिः स्थिरोऽस्तु वाम् । शिथिलोऽस्तु भवग्रन्थिः कर्मग्रन्थिर्दीकृतः ॥ १ ॥” इति मन्त्रेण ग्रन्थि वियोज्य धर्मागारे दंपतिभ्यां सुसाधुगुरुवन्दनं कारयेत् । साधुभ्यो निर्दोष भोजनवस्त्र पात्रादि दापयेत् । इति गर्भाधान संस्कारविधिः । ततः स्वकुलाचारयुक्त्या कुलदेवतागृहदेवतापुरदेवतादिपूजनं । इह यदुक्तं जैनवेदमन्त्रा इति तत्प्रतिपाद्यते । यदादिदेवतनूज आदिमश्चक्री भरतो धृतावधि १ पुनरुक्तिः स्पष्टार्थी । २ अवच्छेदस्सप्तम्यर्थः शिरोवच्छेदेन गर्भिणीं सिवेदित्यर्थः शरीरशोष्यवयवार्थकः । ३ ताभ्यामिति शेषः । 10% For Private & Personal Use Only विभागः १ गर्भाधानं ॥ ७ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy