________________
सर्वाशिवप्रशमनाय सर्वदुष्टग्रहभूतपिशाचमारिडाकिनीप्रमथनाय नमो भगवति विजये अजिते अपराजिते जयन्ति जयावहे सर्वसङ्घस्य भद्रकल्याणमङ्गलप्रदे साधूनां शिवशान्तितुष्टिपुष्टिखस्तिदे भव्यानां सिद्धिवृद्धिनितिनिर्वाणजननि, सत्त्वानामभयप्रदाननिरते, भक्तानां शुभावहे, सम्यग्दृष्टीनां धृतिरतिबुद्धिप्रदानोद्यते. जिनशासननिरतानां श्रीसंपत्कीर्तियशोवर्द्धिनि, रोगजलज्वलनविषविषधरदुष्टज्वरव्यन्तरराक्षसरिपुमारिचौरेतिश्वापदोपसर्गादिभयेभ्यो रक्ष रक्ष, शिवं कुरु २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ स्वस्ति कुरु २ भगवति श्रीशान्तितुष्टिपुष्टिस्वस्ति कुरु २ ॐ नमो नमः हूं हः यःक्षा हीं फट् स्वाहा । अनेन मन्त्रेण पूर्वोक्तेन वा स सहस्रमूलिकं सर्वजलाशयजलं सप्तवारमभिमन्य सपुत्रसधवाकरैः मङ्गलगीतेषु गीयमानेषु गुर्विणी लपयेत् । ततश्च गुर्विण्या गन्धानुलेपनं सदशवस्त्रपरिधानं यथासंपत्त्याभरणधारणं कारयित्वा पत्या सह वस्त्राञ्चलग्रन्थिबन्धनं विधाय पतिवामपाचे गुर्विणी शुभासने कृतखस्तिकमाङ्गल्ये निवेशयेत् । ग्रन्थियोजनमन्त्रः-"ॐ अर्ह, स्वस्ति संसारसंबन्धबद्धयोः पतिभार्ययोः । युवयोरवियोगोऽस्त भववासान्तमाशिषा १" विवाहं वर्जयित्वा सर्वत्र अनेनैव मन्त्रेण दंपत्योपन्धि बध्नीयात् । ततो गुरुस्तस्याः पुरः शुभे पट्टे पद्मासनासीनो मणिवर्णरूप्यताम्रपत्रपात्रेषु सजिनस्नात्रजलं तीर्थोदकं संस्थाप्य कुशाग्रपृषतैः आर्यवेदमन्त्रैर्गुर्विणीमभिषिश्चेत् । तथा । आर्यवेदमन्त्रो यथा-"ॐ अर्ह जीवोऽसि जीवतत्त्वमसि प्राण्यसि
शूकशलभादय ईतयः। २ अधिकः । ३ रूपेण रचनया वा समस्तेन वा विजातीयस्तादृशवसनान्तरविशिष्टो वा प्रान्तो दशा ।
*
*
आ. दि.२
64-552
For Private & Personal Use Only
www.jainelibrary.org
Jain Education inter