________________
ज्ञानः श्रीमागादिजिनरहस्योपदेशप्राप्तसम्यक् श्रुतज्ञानः सांसारिकव्यवहारसंस्कारस्थितये अर्हन्निदेशमाप्य माहनान् धृतज्ञानदर्शनचारित्ररत्नत्रयकरणकारणानुमतित्रिगुणत्रिसूत्रमुद्राङ्कितवक्षःस्थलान् पूज्यानकल्पयत् तदा च निजवैक्रियलब्ध्या चतुर्मुखीभूय वेदचतुष्कमुच्चचार । तद्यथा-संस्कारदर्शनं १ संस्थानपरामर्शनं २ तत्त्वावबोधः ३ विद्याप्रबोध ४ इति । चतुरो वेदान् सर्वनयवस्तुप्रकीर्तकान्माहनानपाठयत् । ततश्च ते माहनाः सप्ततीर्थङ्करतीर्थ यावद धृतसम्यक्त्वाः आर्हतानां व्यवहारोपदेशेन धर्मोपदेशादि वितेनुः। ततश्च तीर्थे व्यवच्छिन्ने तत्रान्तरे ते माहनाः प्राप्तप्रतिग्रहलोभास्तान् वेदान् हिंसाप्ररूपणसाधुनिन्दनगर्भतया ऋग्यजुःसामाथर्वनामकल्पनया मिथ्यादृष्टितां निन्युः । ततश्च साधुभिर्व्यवहारपाठपरा खैस्तान् वेदान् विहाय जिनप्रणीत आगम एव प्रमाणतां नीतः । तेष्वपि ये माहनाः सम्यक्त्वं न तत्यजुः तेषां मुखेष्वद्यापि भरतप्रणीतवेदलेशः कर्मान्तरव्यवहारगतः श्रूयते, स चात्रोच्यते । यत उक्तमागमे-"सिरिभरहचक्कवही आरियवेआण विस्सुओ कत्ता। माहणपढणथमि णं कहि सुहझाणववहारं ॥१॥ जिणतित्थे वुच्छिन्ने मित्थित्ते माहणेहिं ते ठविआ। अस्संजआणपूआ अप्पाणं कारिआ तेहिं ॥२॥ पञ्चामृतं स्नात्रवस्तु सर्वतीर्थोद्भवं जलम् । सहस्रमूलं दर्भश्च कौसुम्भं सूत्रमेव च ॥३॥ द्रव्यं फलानि नैवेद्यं सदशं वसनद्वयम् । शुभमासनपढ़ें
१ सम्यक्त्वेति पाठोपि । २ अवेदयदित्यर्थः । ३ तेषां वेदानाभिति कथञ्चित्समर्थनीयः पाठः ।
9-04444444444444440
an Education Internatio
For Private & Personal Use Only
w.jainelibrary.org