________________
-GROCCASICALCULATORS
एकोनत्रिंशत्तम उदयः।
अथ महत्तरापदस्थापनाविधिरभिधीयते । महत्तरापदानहीं यथा-"कुरूपा खण्डिताङ्गी च हीनान्वयसमुद्भवा । मूढा दुष्टा दुराचारा सरोगा कटुभाषिणी ॥ १॥ सर्वकार्येष्वनभिज्ञा कुमुहूर्तोद्भवा तथा । कुलक्षणाचारहीना युज्यते न महत्तरा ॥२॥"13 महत्तरापदार्हा यथा-"सिद्धान्तपारगा शान्ता कृतयोगोत्तमान्वया । चतुःषष्टिकलाज्ञात्री सर्वविद्याविशा-हू रदा ॥१॥ प्रमाणादिलक्षणादिशास्त्रज्ञा मञ्जभाषिणी । उदारा शुद्धशीला च पञ्चेन्द्रियजये रता ॥२॥ धर्मव्याख्याननिपुणा लब्धियुक्ता प्रबोधकृत् । समस्तोपधिसंदर्भकृताभ्यासातिधैर्ययुक् ॥३॥ दयापरा सदानन्दा तत्त्वज्ञा बुद्धिशालिनी । गच्छानुरागिणी नीतिनिपुणा गुणभूषणा ॥४॥ सबला च विहारादौ पञ्चाचारपरायणा । महत्तरापदार्हा स्यादीदृशी व्रतिनी ध्रुवम् ॥५॥” इति महत्तरापदाही लक्षणम् । तत्र तिथिवारक्षलग्नप्रभृति आचार्यपदस्थापनायोग्यम्, अमारिघोषणावेदियवारादिनिरुञ्चनप्रभृति श्राद्धैर्व्यवहारार्थ विधीयते, सङ्घपूजादिमहोत्सवः सर्वोप्याचार्यपदवत् तथा प्रवर्तिनीपदयोग्या वतिनी कृतलोचा लग्नदिने | प्राभातिककालग्रहणं स्वाध्यायप्रस्थापनं च कुर्यात् । ततो व्रतिनी चैत्ये धर्मागारे वा समवसरणं त्रिः प्रदक्षिणयेत् । ततो व्रतिनी गुरोः पुरः क्षमाश्रमणपूर्व भणति "भगवन् इच्छाकारेण तुज्झे अमं पुवअजा चंदण-|
RAICXCARSAACARSIES
Jain Education Internat
For Private & Personal Use Only
ainelibrary.org