________________
यथा-"संपूर्णविद्यो धृतिमान् वज्रसंहननं वहन् । महासत्वो जिनमते सम्यग् ज्ञाता स्थिराशयः॥१॥ गुर्वनुज्ञां वहन् चित्ते श्रुताभिगमतत्त्ववित् । विसृष्टदेहो धीरश्च जिनकल्पाहशक्तिभाक् ॥ २ ॥ परीषहसहो दान्तो गच्छेपि ममतां त्यजन् । दोषधातुप्रकोपेपि न वहन् रागसंभवम् ॥ ३॥ अव्यञ्जनं रसत्यक्तं पानान्नं कापि कल्पयन् । ईदृशोहति शुद्धात्मा प्रतिमोहनं मुनिः ॥ ४॥” प्रतिमोहनविधिर्यथा-"सर्वगच्छपरित्यागो निर्ममत्वं च साधुषु । पुस्तकेषु च पात्रेषु वस्त्रेषु वसतावपि ॥५॥ रसोज्झितस्य भक्तस्य ग्रहणं वनवासिता । अक्षोभो वज्रपातेपि निर्भयत्वं हरावपि ॥६॥अलोभो निजदेहेपि सुखित्वं यातनास्वपि । शीतेप्रकम्पो माघेपि तापेऽतापो तपेऽपिहि ॥७॥ तुडुद्गमेपि नैर्मूच्छर्य नैक्रोधं देहतक्षके । अविस्मयत्वं सर्वत्र चक्रिशक्रर्द्धिदर्शने ॥ ८॥ हास्यादिषटूत्यागश्च सर्वभावेष्वलोभता । इत्यादि चर्या सर्वत्र प्रति मोहने मता ॥९॥” इति सर्वप्रतिमोबहनचर्या । "मृदुधुवचरक्षिप्रैारभौम शनिं विना । आद्याटनतपोनन्द्यालोचनादिष भं शुभम् ॥ १॥” ईदृशे चन्द्रबले प्रतिमारम्भः । सर्वासु प्रतिमासु एषैव चर्या, प्रथमा प्रतिमा एकमासिकी सा चैकमासं वोढव्या, अरण्ये स्थितः साधुरेकमासं सदाकायोत्सर्गकारी न किञ्चित् चिन्तयन् प्रतिमां पालयति । तत्राहार एकदत्त्या, एकैव दत्तिः पानस्य भोजनस्य वा, कदाचित् पानस्य कदाचिड्रोजनस्य, कदाचिद्दत्तियुक्त्या लब्धेन पानेन दिनमतिवायति । कदाचिद्भोजनेन दत्तियुक्तिलब्धेन आस्वादमात्रेण, द्वयो४ारलाभे संतोष एव । इति एकमासिकी प्रतिमा प्रथमा १ द्वितीया द्वैमासिकी अनयैव युक्त्या, तत्र द्वे दत्ती,
Jain Education Inter
For Private & Personal Use Only
Miww.jainelibrary.org