________________
आचार
दिनकरः
॥ ११६ ॥
Jain Education Interj
यित्वा सुखेन च चतुर्विंशतिस्तव भणनं “ कालस्स पडिक्कमणत्थं यावदप्पाणं वोसिरामि” चतुर्विंशतिस्तवचिन्तनं पारयित्वा मुखेन च चतुर्विंशतिस्तवभणनं । ततो नव्याचार्यः क्षमाश्रमणपूर्व भणति “भगवन् अणुओग अणुजाणावणिअं निरुद्धं करावेह" ततो गुरुराचाम्लप्रत्याख्यानं कारयति । अत्र नव्यसूरेः कङ्कणबन्धमुद्रिकादिपरिधापनं लोकाचारं पूर्वमेव क्रियते ॥ इत्याचार्य श्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्त रायणे आचार्यपदस्थापनाकीर्तनो नाम पञ्चविंशतितम उदयः ॥ २५ ॥
पड़िशतितम उदयः ।
अथ यतीनां द्वादशप्रतिमोद्वहनविधिः ।
तत्र च यतिप्रतिमा द्वादश, ताश्च दुःषमाकाले दुष्कराः सेवार्तसंहननवशात्, धैर्यबलपरीषहसहनाभावाच्च । तथापि श्री आर्यमहागिरेर्जिन कल्पतुलनान्यायेन कश्चनापि धृतिमान् धीरो मुनिः कियतीरपि प्रतिमाः साधयति, तदर्थं तद्विधिरभिधीयते । ताश्च प्रतिमा द्वादश यथा - “मासाह सतता पढमा द्रुतइय सत्तरा |हंदी । अहराई इगराई भिक्खूपडिमाण बारसगं ॥ १ ॥” एकमासिकी १ द्वैमासिकी २ त्रैमासिकी ३ चातुमौसिकी ४ पाञ्चमासिकी ५ षाण्मासिकी ६ साप्तमासिकी ७ पुनः साप्तरात्रिकी ८ साप्तरात्रिकी ९ पुनः | साप्तरात्रिकी १० अहोरात्रिकी ११ एकरात्रिकी १२ चेति द्वादशयतिप्रतिमाः । प्रतिमोद्वहन योग्यमुनिलक्षणं
For Private & Personal Use Only
विभागः १ प्रतिमो
द्वहन०
॥ ११६ ॥
www.jainelibrary.org