SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ AAAA%25 घुसूरिः समवसरणं गुरुं च त्रिः प्रदक्षिणयति । एवं क्षमाश्रमणकायोत्सर्गप्रदक्षिणाकर्म त्रिवेलं कुर्यात् । ततो लघुसूरिः गुरोर्दक्षिणभुजासन्ने नवकल्पितायां निषद्यायां निषीदति । ततः प्राप्तायां लग्नवेलायां गुरुः लघुसूरदक्षिणकर्ण गन्धाक्षतपुष्पैः संपूज्य गुरुपरम्परागतं सकलर्द्धिसिद्धिदायकं नित्यं चिन्तामणिकल्पद्रुमाधिकप्रभावं सूरिमनं त्रिवेलं तत्कणे कथयति । अक्षपोहलिकांच गन्धाक्षतैः समं तत्करे ददाति। शिष्योप्यवहितो मन्त्रमक्षपोहलिकां च गन्धाक्षतः परमास्तिक्यशाली गृह्णाति । गुरुस्तस्य निजनामाविरोधि सप्तकशुद्धं गुरुपरम्परागतं वा दैवतोपदिष्टं वा नाम कुर्यात् । ततः सङ्घो वासान् क्षिपति, ततो गुरुः स्वनिषद्यात उत्तिष्ठति, तत्र शिष्य उपविशति, गुरुरपि सर्वसाधुसहितः मुखवस्त्रिका प्रतिलिख्य नव्याचार्यपदयोवन्दनं ददाति । पुनर्नव्याचार्योंपि निषद्यासीनस्य गुरोस्तथैव वन्दनं ददाति । तुल्यगुणख्यापनार्थ द्वयोरपि न दोषः। ततो गुरुर्नव्याचार्यस्य जीव इति कथयित्वा "वक्खाणं करेहि" इति कथयति । नव्याचार्योंपि स्वविद्यानुरूपं च नन्द्यादिव्याख्यानं करोति । व्याख्यानानन्तरं साधवः साध्व्यः श्रावकः श्राविकाश्च वन्दनं ददिति । ततो नव्याचार्यो गुरुनिषद्यात उत्थाय स्वनिषद्यामधितिष्ठति । गुरुर्मूलनिषद्यायामुपविश्य नव्याचाप्रायस्योपबृंहणं करोति । यथा-"धन्यस्त्वं येन विज्ञातः संसारगिरिदारकः । वज्रवद्दुर्भिदश्चायं महाभाग जिना|गमः ॥१॥ इदं चारोपितं यत्ते पदं सत्संपदां पदम् । अत्युत्तममिदं लोके महासत्वनिषेवितम् ॥ २॥ धन्येभ्यो दीयते तात धन्या एवास्य पारगाः। गत्वास्थ पारं ते धन्याः पारं गच्छन्ति संसृतेः॥३॥ भीतं संसार 6-28OLAA मा.दि.२० Jain Education inter ww.jainelibrary.org SC- For Private & Personal Use Only
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy