________________
Jain Education Interna
यावत् अप्पाणं वोसिरामि” कायोत्सर्गे नमस्कारं चिन्तयतः । ततो द्वावपि ऊर्ध्वकृतभुजौ चतुर्विंशतिस्तवं पठित्वा धम्मो मंगलमारभ्य संयमे सुट्टिअप्पाणं इतिपर्यन्तगाथासप्तदशकं मौनेन पठतः, पुनर्मुख वस्त्रिकां प्रतिलिख्य वन्दनं ददतः पुनः क्षमाश्रमणपूर्व खाध्यायं प्रवेदयतः, पुनर्मुखवस्त्रिकां प्रतिलिख्य वन्दनं ददतः, ततो गुरुः खनिषद्यायामुपविशति । शिष्यः शेषस्वाध्यायं विधिना प्रस्थापयति । ततश्चैत्ये विशुद्धपौषधागारे तीर्थे वा रम्यारामे वा समवसरणं संस्थापयेत् । भाव्याचार्यः समवसरणं प्रदक्षिणीकरोति त्रिः, गुरुश्च निषयोपरिस्थितामक्षपोहलिकां सूरिमन्त्रेण श्रीखण्डकर्पूरादिभिर्ग्रन्थैरभिमन्त्रयति । अक्षपोहलिकावलययन्त्रस्थापनाप्रतिष्ठाविधिः कल्पनाविधिश्च प्रतिष्ठाधिकारे कथयिष्यते । ततो गुरुः निषद्यात उत्थाय निषद्यां पुरस्कृत्य ऊर्ध्वो भवति । शिष्यः क्षमाश्रमणपूर्व भणति “भगवन् इच्छाकारेण तुझे अम्हं दव्वगुणपज्जवेहिं अणुओग अणुजाणावणियं नंदिकावणिअं वासक्खेवं करेह चेहआरंतु वंदावेह” ततो गुरुः श्रीखण्डवासान् कर्पूरकस्तूरिकाका लागरुकुङ्कुमवासितान् सूरिमन्त्रेणाभिमन्त्रयति । वासाभिमत्रेण मुद्राः षोडश । परमेष्ठिमुद्रा १ कामधेनुमुद्रा २ गरुडमुद्रा ३ आरात्रिकमुद्रा ४ सौभाग्यमुद्रा ५ गणधरमुद्रा ६ अञ्जलिमुद्रा ७ मुक्ताशुक्तिमुद्रा ८ यथाजातमुद्रा ९ वज्रमुद्रा १० मुद्गरमुद्रा ११ योनिमुद्रा १२ लानमुद्रा १३ छत्रमुद्रा १४ समाधानमुद्रा १५ कल्पवृक्षमुद्रा १६ इति मुद्रादिभिः सूरिमत्रेण वासानभिमन्त्रय भाव्याचार्यशिरसि क्षिपेत् । ततो गुरुशिष्यौ दक्षिणवामस्थौ वर्द्धमानस्तुतिभिश्चैत्य वन्दनं कुरुतः । ततः श्रुत १ शान्ति २ क्षेत्र ३ भुवन ४
For Private & Personal Use Only
www.jainelibrary.org