SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ११३ ॥ Jain Education Interna घोषणामार्गण तोषणादिकर्म श्राद्धैर्विधीयते । अयं लोकव्यवहारः, पदस्थापनानन्तरं च श्राद्धैः सगृहभोजनवाराः सङ्घार्चनादिकर्म विधीयते । एतत्कर्मद्वयं शोभानिमित्तं श्राद्धानां पुण्यवृद्ध्यर्थं च । मूलविधिस्त्वयं । तत्र लग्नदिनात् प्रथमे दिने सन्ध्यायां गुरुः सदशवस्त्रमयं आचारवेषं खड्गाङ्कितस्फुरमध्ये निधाय गणिविद्यया इति मन्त्रयेत् निशि संस्थापयेच्च । सर्वश्राद्धाश्च वेषसमीपे गीतवाद्यादिमहोत्सवैश्च जागरणं कुर्वन्ति । ततो लग्नदिने भविष्यदाचार्यः कृतलोचो ब्राह्मे मुहूर्ते काष्ठग्रहणं करोति स्वाध्यायं प्रस्थापयति च । अत्रत्यं करणीयं कर्म भगवतीप्रत्यक्षभाषितं पत्रान्तरे लिखितमस्ति । निषद्यास्थापनं सिंहासनेनैव पूर्यते । ततः आ| सन्ने लग्नावसरे प्रतिलेखितभूमौ कम्बलादि प्रतिलिख्य द्वे निषद्ये क्रियेते । ते च निषद्ये संघट्टा अक्षयोग्यं गुरुयोग्यं च स्थाप्येते । ततो गुरुरेकत्र निषद्यायां अक्षग्रन्थि स्थापयति । द्वितीयनिषद्यायां स्वयमुपविशति । ततो भविष्यदाचार्यः चोलपट्टमुखवस्त्रिकारजोहरणमात्रधारी गुरोरग्रे क्षमाश्रमणपूर्व भणति “भगवत्याभाइयकालं पवेएमि" गुरुः कथयति "पवेएहि" पुनः शिष्यः क्षमाश्रमणपूर्व भणति “भगवत्याभाइयकालं पवे| इअं" गुरुः कथयति "पवेइअं खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं गुरुगुणेहिं बुढाहिं नित्थारगपारगो होहि" ततः शिष्यो गुर्वग्रे वन्दित्वा मुखवस्त्रिकां प्रतिलेखयति । ततो गुरुः शिष्यश्च द्वावपि स्थापनाचार्य पुरो द्वादशावर्तवन्दनं दत्वा, शिष्यः क्षमाश्रमणपूर्वं भणति “भगवन् सज्झायं पठवेमि” ततो गुरुशिष्यावपि स्वाध्यायं प्रस्थापयतः पूर्ववत् । ततो द्वावपि "सज्झायपट्टवत्थं करेमि काउस्सग्गं अन्नत्थ उ० For Private & Personal Use Only विभागः १ आचार्यप दस्थापन० ॥ ११३ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy