SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ जितक्रोधो जितेन्द्रियः॥३॥ विनीतो देशकालादिपरिज्ञाने कृतश्रमः । षड्दर्शनानां तत्वानि जानन् प्रमिप्रतिषट्रकवित् ॥४॥ व्युत्पत्तिप्रतिभायुक्तस्तपःकार्ये सदा रतः । चोदना तद्विशेषज्ञो द्वासप्ततिकलायतः ॥५॥ षड्भाषावित् सर्वदेशभाषाभाषणसंयुतः। चतुर्दशसु विद्यासु लौकिकासु विचक्षणः ॥६॥ सौम्यः क्षमावान् मन्त्रादि सर्व जानन् सकारणम् । आवर्जकः सदाचारः कृतज्ञः प्राञ्जलाशयः ॥७॥ सलज्जो नीतिमान् योगमष्टाङ्गं प्रविशन् सदा । ईदृशो मुनिरुत्कृष्ट आचार्यपदमहति ॥८॥" तथागमे–“पडिरूवो तेयस्सी जुगप्पहाणागमो महुरवको। गंभीरो धीमंतो उवएसपरो अ आयरिओ॥९॥" गुरुगुणाः पूर्वमेवोक्ताः। आचार्यपदायोग्यलक्षणं यथा-"पश्चाचारविनिमुक्तः क्रूरः परुषभाषणः । कुरूपः खण्डिताङ्गश्च दुष्टदेशसमु-18 द्भवः॥१॥ हीनजातिकुलो मानी निर्विद्यश्चाविशेषवित् । विकत्थनश्च सासूयो बाह्यदृष्टिश्चलेन्द्रियः॥२॥ जनद्वेष्यः कातरश्च निर्गुणो निष्कलः खलः इत्यादिदोषभाग साधुर्नाचार्यपदमहति॥शा" तथा चोक्तमागमे81"हत्थे पाए कन्ने नासा उठे विवजिया चेव । वामणगवडभखुजा पंगुलटुंटा य काणा य ॥१॥ पच्छावि दाहुँति विगला आयरियत्तं न कप्पए । तेसिं सीसो ठावे अव्यो काणगमहिसोव नन्नम्मि ॥२॥” इति आचा यपदायोग्याः। वडभः क्षीणबलः, खुजा कुजः, इत्यमी आचार्यपदं नाहन्ति । पूर्वोक्तगुणयुक्त पात्रे आचायंपदारोपणं, तस्यायं विधिः । पूर्व वेदियवादिवापननिरुञ्छनमहोत्सवमहादानानिवारितभोजनदानामारि-18 १ एतच्च यथासंभवं विहर्त्तव्यविषयभाषापरतया व्याख्येयनो चेत्स्यादसंभवः । CASSACRORSCALA Jain Education Internet For Private & Personal Use Only Hilaw.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy