________________
Jain Education Internatio
धृतोपवीतोत्तरासङ्गो धौतनिवसनपरिधानो धृतपञ्चकक्षञ्चन्दनतिलकाङ्कितललाटः सुवर्णमुद्रिकाङ्कितसावित्रीकः प्रकोष्ठबद्ध पञ्चपरमेष्टिमन्त्रोद्दिष्टपञ्चग्रन्थियुतः सदर्भको सुम्भसूत्रकङ्कणो रात्र्युपासितब्रह्मव्रतः कृतोपवासाचाम्लनैर्विकृतिकै कासनादिप्रत्याख्यानः संप्राप्ताजन्मयतिगुर्वनुज्ञो जैनब्राह्मणः क्षुल्लको वा गृहिणां संस्कारकर्म (कारयितु) मर्हति ।
उक्तं च यतः-.
" शान्तो जितेन्द्रियो मौनी दृढसम्यक्त्ववासनः । अर्हत्साधुकृतानुज्ञः कुप्रतिग्रहवर्जितः ॥ १० ॥ जितक्रोध लोभमायः कुलीनः सर्वशास्त्रवित् । अविरोधः कृपालु समभूपतिदुर्गतिः ॥ २ ॥ वाचारं प्राणनाशेष्यमुञ्चन्नश्चितचेष्टितः । अखण्डिताङ्गः सरलः सदोपासितसद्गुरुः ॥ ३ ॥
विनीतो बुद्धिमान् क्षन्ता कृतज्ञः शौचवान् द्विधा । गृहिसंस्कारकार्येषु युज्यते गुरुरीदृशः ॥ ४ ॥” Feat गुरुर्गर्भाधानकर्मणि पूर्व गुर्विण्याः पतिमनुजानीयात् । स च गुर्विणीपतिर्नखशिखान्तं स्नातो घृतशुचिवस्त्रो निजवर्णानुसारधृतोपवीतोत्तरीयोत्तरासङ्गः प्रथममर्हत्प्रतिमां शास्त्रोक्तवृहत्स्नपनविधिना स्लपयेत् । तच्च स्नानोदकं शुभे भाजने स्थापयेत् । ततश्च जिनप्रतिमां गन्धपुष्पधूपदीप नैवेद्यगीतवादित्रैः शास्त्रोदितैः पूजयेत् । पूजान्ते गुरुर्गुर्विणीमविधवा करैर्जिन स्नानोदकैरभिषेचयेत् । ततश्च सर्वजलाशयजलानि संमील्य
१ गर्भिण्याः ।
For Private & Personal Use Only
www.jainelibrary.org