________________
आचार
दिनकरः
विभागः१ वाचनानहणविधिः
॥११०॥
4AAAAAAAAA5%
गुणैर्युतः ॥ १॥ विनीतः शास्त्ररागी च सर्वव्याक्षेपवर्जितः । निद्रालस्यादिजेता च विषयेच्छाविवर्जितः॥२॥ यतिर्विज्ञाततत्त्वश्च निर्मत्सरमनाः सदा । सिद्धान्तवाचनाकार्यमहतीदृश उत्तमः ॥३॥” इति वाचनायोग्यलक्षणम् । गुरुलक्षणं योगोद्वहनाधिकारे पूर्वमेवोक्तम् । वाचनासामग्रीलक्षणं यथा-"सहाया योगयोग्याश्च कालो योगसमस्तथा । बहुपुस्तकसंपत्तिः पानान्ने सुलभे तथा ॥१॥ कालग्रहणयोग्यं च क्षेत्रं विघ्न-1 विवर्जितम् । लेखिन्यश्च मषीपात्रं शयनीयाशने शुभे ॥२॥ परित्यागोन्यकार्याणां पटुता दृष्टिजिह्वयोः।। कर्णश्रुतिश्चेति योग्या सामग्री वाचनाक्रमे ॥३॥" इति वाचनासामग्रीलक्षणम् । एवंविधियोगे व्यूढयोगो मुनिः प्राभातिकं कालग्रहणं कुर्यात् स्वाध्यायप्रस्थापनं च, तेनैव विधिना । ततः गुरुपार्श्वे समागत्यैर्यापथिकीं। प्रतिक्रम्य अनुयोगमुखवस्त्रिका प्रतिलिख्य द्वादशावर्तवन्दनं दद्यात् । ततः क्षमाश्रमणपूर्व गुर्वग्रे भणति | "भगवन् अणुओगं आढवेह” गुरुः कथयति “आढवेमि” पुनः शिष्यः क्षमाश्रमणपूर्वकं कथयति "अणुओ|गस्स आढवणत्थं करेमि काउस्सग्गं अन्नत्थ. जाव अ०” कायोत्सर्गः नमस्कारचिन्तनं नमस्कारभणनं.
ततो गुर्वग्रे सुखासनेनोपविश्य मुखवस्त्रिकाञ्चितः पुस्तकालोचनेन गुरुवागनुकरणेन वा गीतादिवचनदोष| रहितो मधुरखरेण सिद्धान्तं वाचयेत् । अत्र वाचनायां परिपाटीवाचनमेव करणीयम् । अर्थग्रहणं टीकाचू[णिप्रभृतीनां व्याख्यानं कालान्तरे, कालादिक्रियावर्जितमपि भवति । प्रथमवाचनायां दशवैकालिकं, ततः |आवश्यकं, ततः उत्तराध्ययनं, ततः आचाराङ्ग, शेषागमानां यथारूचि यथायोगं क्रमोत्क्रमैरपि वाचना.
॥११
॥
Jain Education inte
For Private & Personal Use Only
T
ww.jainelibrary.org