SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आचार विभागः१ प्र. अरु. दिनकरः ॥४॥ दिपूजनम् । कानि च । चतुनि शान्तिपातयुक्तिनुर त्रिंशत्तमे ३० वतिनां च व्रतिनीनां च सर्वथा । दिनरात्रिस्थितिश्चोपकरणानां च कीर्तनम् ॥ ३४॥ एकत्रिंशत्तमे ३१ साधुव्रतिन्योऋतुजा स्थितिः। विहारलोचयुक्तिश्च व्याख्यानविधिरेव च ॥ ३५ ॥ द्वात्रिंशत्तम ३२ एवैषां मरणस्य विधिः परः। त्रयस्त्रिंशत्तमे ३३ देवचैत्यगेहजलात्मनाम् ॥ ३६॥ प्रतिष्ठा विस्तरादन्या तथा चैवाधिवासना। आह्वानं सर्वदेवानां पूजास्थापनमेव च ॥ ३७॥ बृहत्लात्रविधिश्चैव नन्द्यावादिपूजनम् । कङ्कणच्छोटनं चैव मङ्गलाष्टकपूजनम् ॥ ३८॥ ऋयाणकानि खरसाग्नि ३६० मितानि शुभानि च । चतुस्त्रिंशत्तमे ३४ शान्तिकर्म सर्वार्चनान्वितम् ॥३९॥ ग्रहनक्षत्रशान्तिश्च तथा मूलादिशान्तिकम् । पञ्चत्रिंशत्तमे ३५ शान्तिपौष्टिकं कर्म सत्तमम् ॥४०॥ षत्रिंशत्तमके ३६ ज्ञेयं बलिकर्म सुशोभनम् । सप्तत्रिंशत्तमे ३७ प्रायश्चित्तयुक्तिरनुत्तरा ॥४१॥ जीतकल्पभवा साधुगृहियोग्यार्थशोधिनी। दुकर्मणां च बाध्यानां शोधनं प्रोक्तमुत्तमम् ॥ ४२॥ अष्टात्रिंशत्तमे ३८ चैव सदावश्यकजो विधिः। सामायिकचतुर्विशस्तववन्दनकादिषु ॥४३॥ प्रतिक्रमणकायोत्सर्गप्रत्याख्यानविचारणम् । एषां च योजना सर्वा व्याख्या विकृतिकादिषु ॥४४॥ व्याख्या पाक्षिकसूत्रस्य यतिश्रावकसूत्रयोः। शक्रार्हत्स्तुतिसिद्धादिस्तोत्रव्याख्यानमेव च ॥४५॥ व्याख्यानं वन्दनादीनां क्षामणालोचनावपि । स्थापनाचार्यमानं च कालदण्डादिमानकम् ॥ ४६॥ १ 'बाह्यानां' इत्यपि पाठः । Jain Education Intern For Private & Personal Use Only Allwww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy