________________
SSSSSSS
अग्निसन्तर्पणं चैव तथार्थ्यविधिरुत्तमः । लाजमोक्षप्रदानं च गणिकानां विवाहनम् ॥२०॥ ततः पञ्चदशे १५ चैव सम्यक्त्वारोपणं परम् । द्वादशव्रतरोपश्च प्रतिमोद्बहनं तथा ॥२१॥ उपधानतपश्चापि मालारोपणजो विधिः । परिग्रहप्रमाणं च गृहिणां युनिशास्थितिः ॥ २२॥ अर्हत्पूजाविधिः श्रेष्ठो लघुरलात्रविधिः शुभः । दिक्पालानां ग्रहाणां च पूजनं तत्र वै लघु ॥ २३ ।। उपधानादि नन्दिश्च षोडशे १६ मृत्युजो विधिः । तत्र चाराधना श्रेष्ठा चतुःस्सरणमेव च ॥ २४ ॥ क्षामणा चैव संस्कारः कथितो गृहमेधिनाम् । तथा च सप्तदशमे १७ ब्रह्मचर्यविधिः परः ॥२५॥ अष्टादशे १८ क्षुल्लकत्वमेकोनविंश १९ एव च । व्रतयोग्यायोग्ययुक्तिहत्यागविधिः पुनः ॥ २६ ॥ प्रव्रज्याग्रहणं चैव तथा विंशोदये २० पुनः । उत्थापना व्रतोचार एकविंशे २१ तथैव च ॥ २७ ॥ योगोद्वहनयुक्तिश्च कालग्रहणजो विधिः । खाध्यायप्रस्थापनं च क्षमाश्रमणयोजना ॥ २८॥ कायोत्सर्गा वन्दनानि सङ्घदृश्चोक्तपानकम् । क्रिया प्रतिदिनं चैव योगानां सार्द्धवार्षिकी ॥२९॥ द्वाविंशे २२ वाचनायुक्तिस्त्रयोविंशे २३ यथाविधि । वाचनार्यपदप्राप्तिश्चतुर्विशे २४ तथैव च ॥३०॥ उपाध्यायपदारोपः पञ्चविंशे २५ ततः परम् । आचार्यपदयुक्तिश्च गुणा दोषाश्च तद्भवाः ॥ ३१॥ षड्विंशे २६ प्रतिमानां च वहनं व्रतधारिणाम् । सप्तविंशे २७ व्रतिनीनां व्रतदानमनुत्तरम् ॥ ३२॥ अष्टाविंशे २८ प्रवर्त्तिन्याः पदक्रमविशेषणम् । एकोनत्रिंशत्तमे २९ च महत्तरापदं गुणाः ॥३३॥ १ स्मरणमिति कचित् पाठः ।
Jan Education Intern
For Private & Personal Use Only
A
w w.jainelibrary.org