________________
Jain Education Intern
महरप्रारम्भे, प्राभातिकं घटिकाद्यशेषायां निशायाम्, एवं चत्वारः काला निशि, व्याघातिकार्द्धरात्रिकयोर्दक्षिणस्यां स्थापनाचार्यः, वैरात्रिके पश्चिमायां दक्षिणस्यां वा, प्राभातिके पश्चिमायामेव, प्राभातिककाल: क्षुद्मार्जारशब्दादिभिर्भग्नः पुनः पुनः सप्त नव वा वेलाः पुनरारभ्यते । अन्ये व्याघातेन भग्नाः पुनर्न भवन्ति, एवं प्राभातिककाले संपादिते प्रतिलेखनावेलायां प्रतिलेखनाङ्गप्रतिलेखनोपधिप्रतिलेखना विधाय वसतिं प्रमायस्थिचर्मादि संशोध्य कालग्राही ऐर्यापथिकीं प्रतिक्रम्य मुखवस्त्रिकां प्रतिलिख्य क्षमाश्रमणपूर्व भणति "भगवन् वसहिं पवेएमि" पुनः क्षमाश्रमणपूर्व भणति "वसही सुज्झई" पुनः क्षमाश्रमणं दत्वा भणति " भगवन् पाभाइअ कालं पवेएमि" पुनः क्षमाश्रमणपूर्व भणति "भगवन् पाभाइअकालो सुज्झई” ततो गुरुः योगवाही वान्येपि मुनयः स्थापनाचार्यपुरः स्वाध्यायं प्रस्थापयन्ति, नित्यकर्मेदं साधूनां कालग्राहिणां । विशेषेण स्वाध्यायप्रस्थापनाविधिरुच्यते । कालग्राही अन्यो वा स्थापनाचार्यपुरो मुखवस्त्रिकां प्रतिलिख्य द्वादशावर्तवन्दनं दत्वा क्षमाश्रमणपूर्वं भणति “भगवन् सज्झाय पठवेमि" पुनः क्षमाश्रमणं दत्वा भणति "सज्झायरस पट्टावणत्थं करेमि काउस्सग्गं अन्नत्थ यावत् अप्पाणं वोसिरामि" नमस्कारं विचिन्त्य शनैर्वाह समाहत्य मौनेनैवान्नमस्कारेण पारयित्वा सप्तविंशत्युच्छ्वासं चतुर्विंशतिस्तवं पठित्वा मौनेनैव दशवैकालिकाध्ययनद्वयं तृतीयाध्ययनैक श्लोक पर्यन्तं मौनेनैव पठति पुनरपि तथैव कायोत्सर्ग विधाय नम|स्कारं विचिन्त्य पारयित्वा मौनेन नमस्कारं पठित्वा मौनेनैव द्वादशावर्तवन्दनं ददाति ततः क्षमाश्रमणं
For Private & Personal Use Only
www.jainelibrary.org