________________
आचारदिनकरः
विभागः१ योगोद्वहनविधिः
॥
८॥
कृत्वा तत्र च परमेष्ठिमन्त्रं चिन्तयित्वा पारयित्वा नमस्कारं पठित्वा सदंशकं प्रतिलिख्य उपविश्य च वारत्रयं प्रतिलिख्य असवलितादिविधिना रजोहरणेन वारत्रयं कालं प्रतिलिखति । पुनरपि दक्षिणचरणोपरि संबन्धं कालमण्डले रजोहरणं स्थापयित्वा मुखपोतिकामुपरिकायं च प्रतिलिख्य वामहस्तेन कालम|ण्डलं संघयित्वा दक्षिणहस्तगृहीतरजोहरणेन पादौ प्रमार्टि । मुखवस्त्रं संगोपयित्वा दक्षिणजह्वामूले रजोहरणं वामहस्ते उपविश्य च रजोहरणदशिकाभिर्दक्षिणहस्तं वारत्रयं मध्य उपरि च संघट्ट|यित्वा कालमण्डलस्थितसंपुटीकृतहस्तद्विकाङ्गष्ठाभ्यां नासया दक्षिणकर्णे वामकर्णे च वारत्रयमुपयोग कुर्यात् । ततः उपर्यधश्च हस्तद्वयेन एकान्तरितं वारत्रयमावर्तेन भूमि परामृश्य दक्षिणहस्तेन गृहीत्वा | रजोहरणेन कालमण्डलस्थितवामकराङ्गुष्ठाङ्गुलीनामन्तरे वारत्रयं प्रमृज्य वामजानुना कालमण्डलं संघट्टयित्वा दण्डधरो हस्तदण्डं गृहीत्वा प्रतिलिख्य कव्यां स्थापयति । एवं वारत्रयं मुखवस्त्रलेखनपूर्व मण्डलं प्रतिलिख्य दण्डिकां नमस्कारपूर्व दण्डधरहस्ते ददाति । ततो द्वाभ्यां हस्ताभ्यां कालमण्डलं संघयित्वा हस्तयोः पादं संयोजयन् “निस्सीही ३ नमो खमासमणाण" मिति भणन् कालमण्डले प्रविशति चोलपर्ट प्रतिलिखति । अयं विधिगुरुमुखाद ज्ञेयः । ततः ऊर्ध्वस्थो भूत्वा भणति “पाभाइकालियोवणियं करेमि काउस्सग्गं" कायोत्सर्ग करोति । तत्र नमस्कारे चिन्तयित्वा ऊर्ध्वस्थितदण्डधरधृतदण्डाऽ. ग्रतः करोति । परमेष्ठिमन्त्रेण पारयित्वा बाह समीकृत्य मुखे मुखवस्त्रिकां दत्वा मौनेन चतुर्विशतिस्तवं प
For Private & Personal Use Only
८
॥
Jain Education Intern
w
ww.jainelibrary.org