SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ |विभागः१ योगोद्वह नविधिः आचार- मध्ये क्रियते नापराहे निशि वा अध्ययनोद्देशादि निशायामपि भवति । तत्र योगा द्विधा आगाढा अनादिनकरः गाढाश्च । येषु सर्वसमाप्तावेव परित्यागो योगान्तरप्रवेशश्च भवति ते आगाढाः । येषु च कालक्षमाश्रमणक्रि यासमाप्तौ दिनसमाप्तिं विनापि योगविसर्गो योगान्तरप्रवेशो वा भवति ते अनागाढाः । तत उत्तराध्ययन १ प्रश्नव्याकरण २ आवश्यक ३ दशवकालिक ४ भगवती ५ महानिशीथ ६ योगा आगाढाः । शेषा अनादूगाढाः। तत्र लघुनन्दीप्रोक्तक्रमेण पाक्षिकसूत्रोक्तक्रमेण वा दशवैकालिकाद्या महाप्रत्याख्यानान्ता उत्कालिकाः न तेषु कालग्रहणं सङ्घद्यादि भवति । उत्तराध्ययनाद्याः ते योगनिसर्गान्ताः कालिकाः तेषु कालग्रहणखाध्यायप्रस्थापनसकवादि सर्व क्रियते । शेष नन्दीक्षमाश्रमणोद्देशादि कालिकोत्कालिकयोः सदृशमेव । तत्र कालिकोपयोग्यर्थ कालग्रहणविधिः स्वाध्यायप्रस्थानविधिश्च भण्यते । तत्र वसतौ पूर्वोक्तशुद्धायां पूर्वोत्तरयोर्दिशोरेकै कालमण्डलं कुर्यात् । तत्र परिणतखटिकया परिमार्जनमात्रेण वा मण्डले क्रियेते । वैरात्रिके प्राभातिके काले पश्चिमदिशि स्थापनाऽऽचार्य स्थापयेत् । पूर्वस्यां दिशि कालग्रहणं व्याघातिके संध्याकाले दक्षिणदिशि स्थापनाचार्यम् उत्तरस्यां कालग्रहणम् अर्द्धरात्रिकेऽपि व्याघातिकवत् । तत्र मुनिद्वयं गवेष्यते । एको दण्डधरो यः कालदण्डी धारयति । द्वितीयः कालग्राही क्रियाप्ररूपकः । ततः पूर्वमारम्भार्थ प्राभातिककालग्रहणाभिलापेन विधिरुच्यते । द्वावपि कालौ अन्यौ तयैव युक्त्या तदभिलापेन ज्ञेयौ । प्राभातिके काले पश्चिमदिशि स्थापनाऽऽचार्य स्थापयेत् तत्र कालदण्डी च । ततः कालग्राही दण्डधरं वाम AAAAAAAAAAAA ॥८७॥ For Private & Personal Use Only www.jainelibrary.org Jain Education inte
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy