________________
ACCACAAACACCC00404
धिर्भवति । सर्वसन्निधिं परित्यजेत् । वसत्युपकरणादि कल्प्यतर्पणजलेन प्रोक्षयेत् । कल्प्यतर्पणविधिर्ऋतुच-18 पर्यायां वक्ष्यते । अत्र चतुर्मासीमध्ये व्रतोपधानयोगारम्भे वर्षमासशुद्धिर्न गवेष्यते दिनशुद्धिाह्या । "मृदु
ध्रवचरक्षिप्रैर्वारे भौमं शनि विना । आघाटनतपोनन्द्यालोचनादिषु भं शुभम् ॥१॥" मृत्युयोगादि वर्जयित्वा मृगशिरआदिषु दशसु विद्यानक्षत्रेषु अमृतसिद्धियोगे रवियोगे च शुभशकुनेषु योगोद्बहनारंभ कुर्यात् । इह यदागमे परिच्छेदाः श्रुत १ श्रुतस्कन्ध २ अध्ययन ३ शत ४ वर्ग ५ उद्देशाः कथ्यन्ते । तत्र श्रुतं संपूर्ण आगमः यथा उत्तराध्ययनं आचाराङ्गं एवमादि । श्रुतस्कन्धस्तु श्रुतदलरूपः योगोद्बहने वाचनायां च खण्डविश्रामरूपः । अध्ययनानि व्याख्येयसमाप्तौ श्रुतस्कन्धखण्डानि योगोद्वहनसङ्ख्याकराणि वाचनासु विश्रामरूपाणि केष्वपि सिद्धान्तेषु अध्ययनाभावतः शतानीति संज्ञा तेषामपि क्रियाध्ययनवत् तेष्वपि वर्गाः खण्डभूताः तेषां मध्येऽपि उद्देशा भवन्ति । उद्देशास्तु अध्ययनानां शतानां कथनीयान्तरखण्डभेदा लघवो भवन्ति । ते च कचिद्योगोङ्कहने पृथगुद्दिश्यन्ते । ते च आदिमान्तिमभेदभिन्ना भवन्ति ।। तेषामुद्देशादि समकालमेव भवति । इह च योगोद्वहने नन्दिकालग्रहणक्षमाश्रमणादिषु या उद्देशसमुद्देशानुज्ञाः कीर्त्यन्ते । तत्र उद्देशः तस्य सिद्धान्तस्य वाचनादिषु गुर्वाज्ञा, समुद्देशस्ततोऽपि विशेषाज्ञा, अनुज्ञा तत्कालं तस्य कर्मणः शीघ्रमेव करणीयादेशः । सर्वत्रापि त्रिवाचकं वस्तु निःसंशयं विशेषात् शकुनगुर्वादेशनृपत्यादेशानां त्रिवाचकत्वेनैव दृढीभावः । तत्राङ्गश्रुतस्कन्धानामुद्देशादि दिवसप्रथमपादोनप्रहर
Jain Education Inter
For Private & Personal Use Only
Krow.jainelibrary.org