________________
RAA%%%%%
ततो युग्मं विघयेत् । इति चरसङ्घविधिः॥ अथ स्थिरसङ्घविधिः । तत्र स्थिरसङ्घद्यो हस्तपादधर्मध्वजपात्रदोरकझोलिकादिरूपः। स चोच्यते-पूर्व मुनिरैर्यापथिकी प्रतिक्रम्य पात्रदोरिकाझोलिकादि समीपे समानीय कालोचिते काष्ठासने पादप्रोब्छने वा उपविशेत् । पादावूर्द्धजानुसमौ धारयेत् । रजोहरणं समुखवस्त्रिकमग्रे कृतदशं दक्षिणकट्युत्सङ्गे स्थापयेत् । तथा पूर्व हस्तं सङ्घयत् । तस्य विधिरयं-रजोहरणदशासबातोपरि हस्तौ समीकृतावधोमुखौ न्यसेत् पुनरुन्मुखौ एवं त्रिः कुर्यात् । इति हस्तसङ्घनं । पादौ रजोहरणेन समीकृततलौ त्रिः प्रमार्जयेत् पुनर्मीलयेत् एवं त्रिः कुर्यात् । इति पादसङ्घट्टनं । ततो हस्ती ऊरुमध्यगतावेव स्थापयेत् । बहिः कृतावसङ्घटितौ भवतः । जान्वन्तरालबहिः कृतकराभ्यां गृहीतं वस्तु सङ्घट्टितमप्यसङ्घहितं स्यात् । पादौ अधः प्रसारिती ततः पार्श्वनीतौ सङ्घहितावप्यसङ्घहितौ भवतः । असङ्घटितपादद्वयगर्भगृहीतं पात्रादिसङ्घट्टितमप्यसङ्घट्टितं स्यात् तत्पूर्व हस्तपादयोयत्नः कर्त्तव्यः। अकृतयोगैः स्पृष्टं वस्तु शरीरं च सङ्घट्टितमप्यसङ्घट्टितं स्यात् । आवश्यकदशवैकालिकमण्डलीप्रवेशोत्तराध्ययनाचाराङ्गकल्पव्यवहारदशाश्रुतस्कन्धयोगवाहिनः कृतयोगा उच्यन्ते एतन्यूनयोगवाहिनोऽकृतयोगाः । ततो रजोहरणं सङ्घयेत् । तत्सद्दनस्यायं विधिः-दक्षिणहस्ते तद्दण्डिकां गृहीत्वा वामहस्तेन तद्गर्भदशां गृह्णीयात् । दक्षिणामुल्यङ्गुष्ठपरिवर्तनेन दक्षिणावर्तेन भ्रमयेत् पुनर्वामावर्त्तन एवं त्रिः कुर्यात् । पुनर्दक्षिणकरेण रजोहरणं गृहीत्वा वामकरचुलुकं कृत्वा रजोहरणदशाग्रं त्रिः प्रक्षिपेत् । पुनर्वामकरतलं प्रसार्य रजोहरण्या त्रिर्मार्जयेत् । एवं त्रिः
आ.दि.१५ Jain Education Intern
For Private & Personal use only
Klioww.jainelibrary.org