________________
आचार
दिनकरः
॥ ८४ ॥
Jain Education Inter
अकाल उत्सृजेद्गधं स्थानं न प्रतिलेखयेत् । अतिक्राम्यति वा स्थानमप्रमाणं करोति वा ॥ २ ॥ कषायानपि पुष्णाति व्रतानि न करोति च । अभ्याख्यानं च पैशुन्यं परिवादं करोति वा ॥ ३ ॥ पुस्तकाशातनां चैव कुर्याद्भूपातनादिभिः । धर्मध्वजं चोलपटं हस्तान्मुञ्चति वा कटे ॥ ४ ॥ ऊर्ध्वो नावश्यकं कुर्यात् कुर्याद्वैरात्रिकं न वा । प्रमार्जयेनोपधिं वा तथा भोजनभूमिकाम् ॥ ५ ॥ उद्देशावश्यकक्षोणीं न वा मार्ष्टि प्रमादतः । |इत्येतेष्वालोचनायामुपवासं समाचरेत् ॥ ६ ॥ अप्रमार्ण्य कपाटादि य उद्घाटयते यतिः । तस्य वासरपूवर्द्धि प्रत्याख्यानं समाचरेत् ॥ ७ ॥ कालेनावश्यकं कुर्यान्न गोचरचरीमपि । न वा नैषेधिकीं चापि तस्य निर्विकृतिः स्मृतं ॥ ८ ॥ षट्पदी पीडनादेव कुर्यादेकाशनं यतिः । भङ्गे योगविधानस्य प्रायश्चित्तमिदं स्मृतम् ॥ ९ ॥ इति योगभङ्गप्रायश्चित्तविधिः । अथ कालिकेषु योगेषु सङ्घट्टोक्तमाने भवतस्तद्विधिरुच्यते । तत्र प्रथमं चरसङ्घट्टमुच्यते श्लोकः । "व्यायामार्थं च भिक्षार्थ गन्तव्यं द्वितीयेन तु । व्रजेनाकृतयोगेन न स्पृशेत्कञ्चनापरम् ॥ १ ॥ न वा पञ्चेन्द्रियं जीवं मध्ये कुर्यान्मुनिद्वयं । वल्लीद्रुमनिकायादि नान्तः कुर्यात्स्पृशेच्च न ॥ २ ॥ वसतेरेव निर्गच्छेत् कृत्वा सङ्घयोजनम् । आगत्य चैर्यापथिकीं प्रतिक्रम्य विघयेत् ॥ ३ ॥” गमने भगवन्, संघ संदिसावेमि संघहं करेमि संघट्टसंदिसा वणत्थं करेमि काउस्सग्गं अन्नत्थऊ० यावदप्पाणं वोसिरामि । कायोत्सर्ग नमस्कारं विचिन्त्य नमस्कारं पठेत् । आगमने ईर्ष्यापथिकीं प्रतिक्रम्य संघ पडिक्कमामि संघट्टस्स पडिकमणत्थं करेमि काउस्सग्गं अन्नत्थ० जाव अप्पाणं वोसिरामि । नमस्कारं विचिंत्य नमस्कारं पठेत् ।
For Private & Personal Use Only
विभागः १ योगोद्वहनविधिः
॥ ८४ ॥
www.jainelibrary.org