SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ CANCHARACKSEX गृहिभिः क्षिप्तं वर्जयेत्तद)घृतादिना । तत्कल्पतेऽन्यदिवसे नालिकेरघृतादिकम् ॥४०॥ नालिकेरस्य खण्डं च द्राक्षा सर्व च पानकम् । शुण्ठी कृष्णामरिचादि तद्दिने कल्पते यतेः ॥ ४१ ॥ दधिकृप्तं करंवादि शिखरिण्यादि तद्दिने । न कल्पते चान्यदिने कल्पते तन्महात्मनाम् ॥४२॥ तक्रराद्धं घृतराद्धं कल्पते व्यञ्जनं सदा। निर्भञ्जनं चान्यं घृताक्षेपे सर्वत्र कल्पते ॥४३॥ तत्पकं चैव पक्वान्नं नीरसं तच कल्पते । न भुञ्जीत योगवाही द्वात्रिंशत्कवलाधिकम् ॥४४॥ अह्नः प्रथमयामान्तश्चर्यायाः प्रतिपादनम् । सङ्कटमुक्तमानं च प्रतिपद्येत योगभाक् ।। ४५ ॥ द्वितीये यामे भिक्षा च कल्पते योगवाहिनाम् । निर्भञ्जनैतैस्तैलैर्देहगात्रादिगुण्ठनम् ॥ ४६॥ वाचनाचार्यसंस्पृष्टं वासो द्वित्रिचतुर्दिनम् । अधिकं चापि सर्वाह कल्पते खसमाधिना ॥ ४७॥ परीषहादिसहनं कर्तव्यं निशि वासरे । उद्देशाद्यपि जायेत संयतिभिः समं यदि ॥४८॥ कार्य तदा लोचपदृग्रहणं चान्यथा तथा । तिनीनां सवस्त्राणां कल्पते कर्मयौगिकर ॥४९॥ एवमादि च यत्प्रोक्तं हेयोपादेयमञ्जसा । सिद्धान्ते तद्विधेयं स्यात्तथैव गुरुवाक्यतः॥५०॥ आगमं च गुरोर्वाक्यं विना यद्यद्विधीयते । तन्महादोषहेतुः स्यादिहामुत्र च दुःखदम् ॥५१॥ अन्यच्च भक्तपानादिग्रहणे चोक्तमानके । कायोत्सर्गादिकरणे विधिश्चिन्त्यः क्षणे क्षणे ॥५२॥ अनेन विधिना भक्तपानादि प्रतिगृह्यते । भुञ्जते साधवो ग्रासं दोषलेशापहारिणः ॥ ५३ ॥” इति गणियोगचर्या-अथ कदाचिदुक्तचर्याया भङ्गो भवति तदा तत्प्रायश्चित्तविधिरुच्यते-“सङ्कटरहितं भुंक्त तल्लिप्तमथवा परम् । आधार्मिकमश्नाति सन्निधिं भुंक्त एव च ॥१॥18 Jan Education Internat For Private & Personal use only A dv.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy