SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna वन्दनम् । दत्वा चैव तदुत्सर्गः कायोत्सर्गश्च पूर्ववत् ॥ ८ ॥ योगवाही नमस्कारप्रत्याख्यानं दिने दिने । रात्रिप्रतिक्रमणान्ते कुर्यात् प्रातर्यथोचितम् ॥ ९ ॥ अपूर्वपठनं चैव कुर्यात्पूर्व न विस्मरेत् । उपधिं पात्रय - न्धादि द्विवेलं प्रतिलेखयेत् ॥ १० ॥ मितं वदेत् सूक्ष्मशब्दं कामक्रोधादि वर्जयेत् । महाव्रतानि पञ्चैव धारयेद्गाढयुक्तितः ॥ ११ ॥ सङ्घट्टकप्रतिच्छेदं न कुर्यात्कालकेष्वपि । शुद्धमन्नं च पानं च गृह्णीयात्पात्रवाससी ॥ १२ ॥ उच्छिष्टान्नपरित्यागं न कुर्याद्वमनादिकम् । मितः संस्तारवस्त्रादेरासनादेः परिग्रहः ॥ १३ ॥ खाध्यायकालग्रहणे विदध्यादतियत्नतः । अखाध्याये न कर्त्तव्यं पाठकालादिकं कचित् ॥ १४ ॥ अकाले च मलोत्सर्गे न कुर्वीत निशादिके । आनीतमकृतयोगैर्न ग्राह्यमशनं जलम् ॥ १५ ॥ तैः समं नैव सङ्घहौ न शय्या|सनसंश्रयः । प्रतिलिखितं तैर्वसनशय्यादि न विधापयेत् ॥ १६ ॥ नाङ्गे चिकित्सितं कुर्यात् तदन्येषु न कारयेत् । न च वृष्टौ महावाते निर्गच्छेद्भिक्षणादिषु ॥ १७ ॥ इयं तु चर्या सर्वेषु योगेषु परिकीर्त्तिता । ब्रूमो | भगवतीयोगचर्यामथ यथाविधि ॥ १८ ॥ बल्यर्थं विहिताहारं गर्हिताहारमेव च । तथा मृतक्रियाहारं वर्ज - |दतियत्नतः ॥ १९ ॥ देवादिपात्र संस्पृष्टं संस्पृष्टं तत्परं परम् । तथा विकृतिसंस्पृष्टं न कल्पं योगवाहिनाम् ॥ २० ॥ कुर्यादकृतयोगैश्च न मलोत्सर्जनादिकम् । भिक्षाभ्रमे च संस्पर्शस्तेषामेव न युज्यते ॥ २१ ॥ उपधे | रचनाकर्म गुर्वादेशं विना नहि । पक्कान्नवर्जितामन्यां विकृतिं च करे वहन् ॥ २२ ॥ ददाति भिक्षां चेन्नैव गृह्णीयाद्गणियोगकृत् । आर्द्राङ्गश्वानमार्जार मांसाशनविहङ्गमान् ॥ २३ ॥ वत्सं स्पृष्ट्वा ददद्भिक्षां वर्जयेद For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy