SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ इष्टप्रतिक्रमणं पाणिपात्रभोजनं च । शेषः सर्वोऽपि विधिस्तथैव ॥ इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदि-| नकरे यतिधर्मोत्तरायणे प्रव्रज्याकीर्तनो नाम एकोनविंशतितम उदयः ॥१९॥ विंशतितम उदयः। उत्थापनाविधिः। इह हि प्रव्रज्याग्रहणमात्रेण सामायिकयतित्वेन भगवन्तोऽहन्तः खयंवुद्धा एव यतित्वमाप्नुवन्ति न बुद्धबोधिताः पञ्चमहाव्रतोचारोत्थापनाविरहिता यतय उच्यन्ते तद्विधिरुच्यते,-प्रथमं नन्दिविधियुक्तं आवइयकदशवकालिकयोगोद्वहनं विदध्यात् । ततश्च मण्डलीप्रवेशयोगोदहनान्तराले अध्ययनत्रयाचाम्लत्रये नन्दिरुत्थापनाख्या विधेया। आवश्यकदशवकालिकमण्डलिप्रवेशयोगा योगोदहनाधिकारे कथयिष्यन्ते । उत्थापनाविधिस्त्वयं,-अत्र तिथिवारक्षलग्नादि प्रव्रज्यासनं । अत्र शिष्यकृते वस्त्रसंस्तारकमुखवस्त्रिकारजोहरणपात्रादि सर्व नवीनं विधेयं । ततश्चैत्ये वा धर्मागारे वा समवसरणं संस्थाप्य गुरुः शिष्यं समवसरणस्य परमेष्टिमन भणन् पूर्व प्रदक्षिणात्रयं कारयित्वा ततो वासान् अभिमन्त्रयेत् । ततः शिष्यः क्षमाश्रमणपूर्व भणति,-"इच्छाकारेण तुन्भे अम्हं महव्वयारोवणत्थं नंदिकद्दावणि वासनिक्खेवं करेह चेइआई च वंदावेह ।” गुरुर्वासक्षेपं विधाय शिष्येण समं चैत्यवन्दनं स्तुतियुक्तं पूर्व च करोति । श्रुतादिदेवताकायोत्स RSSHRES । आ.दि.१४ Jain Education Internet For Private & Personal Use Only W ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy