SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः१ प्रव्रज्याविधिः ॥७५॥ -COLOCALCCASSCOM का कप्पए पुरिसो॥१॥" परसमयेऽपि-"द्विजातिः शौचवान् विद्वान् खगः शान्तो जितेन्द्रियः । विषयेभ्यो विरक्तश्च नरः संन्यासमहति ॥१॥” तथा च-"गार्हस्थ्यं ब्रह्मचर्य च क्षुल्लकत्वमुपास्य च । व्रताय कल्पते देही ब्रह्मचार्यपि कुत्रचित् ॥१॥” गृही पालितगार्हस्थ्यस्तुलितब्रह्मचर्यः पूर्णीकृतक्षुल्लकत्वो यदि न प्रत्रज्याग्रहणे प्रभवति तदा तस्य पुनर्गाहस्थ्यमुचितं प्रव्रज्याग्रहणे तु न पुनर्गाहस्थ्यं । यदुक्तमागमे-"बालते ब्रम्हचरित्ते गिहत्थत्ते विहुव्वणे । गहिऊण वयं पच्छा मरणेवि न मोयये ॥१॥" यथा विध्युपनीतस्य बालस्यापि ब्रह्मचारिणो व्रतदानं युज्यते । अत्र कर्मणि गुरुः पूर्वोक्त एव । यदुक्तमागमे-"आयरिअउवज्झाओ पवत्तओ तहयवायणायरिओ। गीयत्थो वा साहू पव्वज दिजूअ वराणं ॥१॥ जेसिं वंदणकम्मं किजई साहुहिं सावएहिं । पित्तेपवजादाणे गुरुणो जुत्तान अन्नेवि ॥२॥” गच्छसमाचारी विशेषेण आचार्यैरेव प्रव्रज्या दीयते कचिदुपाध्यायैरपि तत्र गुरुक्रमः प्रमाणं । तद्विधिरुच्यते-"दीक्षायां स्थापनायां च शस्तं मूलं पुनर्वसू । स्वातिमैत्रं करः श्रोत्रं पोष्णं ब्राह्मोत्तरात्रयम् ॥१॥ समदोषोज्झिते धिष्ण्ये वारे शुक्रकुजो|ज्झिते । तिथिष्वदोषासु वर्षमासवासरशद्वितः॥२॥ गोचरस्य विशुद्धौ च द्वयोश्चन्द्रबले तथा । जन्मादिमासत्यागे च सौजन्ये गुरुशिष्ययोः ॥ ३॥ लग्ने शुभे सर्वबलयुक्ते गुरुबलान्विते । यथोक्तगुणयुक्तस्य गुरुभिर्दीयते व्रतम् ॥ ४॥ भृगोरुदयवारांशभुवनेक्षणपञ्चके । चन्द्रांशोदयवारे च दर्शने च न दीक्षयेत् ॥५॥ षट्येकादशपञ्चमे दिनकरस्त्रियायषष्ठे शशी लग्नात्सौम्यकुजौ शुभावुपचये केन्द्रत्रिकोणे गुरुः । शुक्रः। For Private & Personal Use Only ॥ ७५ ॥ Jain Education Intem www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy