________________
Jain Education Internal
षट्त्रिनवान्त्यगोऽष्टमसुतयेकादशो मन्दगो लग्नांशादिगुरुज्ञचण्डमहसां शौरेश्च दीक्षाविधौ ॥ ६ ॥ रविस्तृतीयो दशमः शशाङ्को जीवेन्दुजावन्तिमनाशवर्जी । केन्द्राष्टवर्जी भृगुजस्त्रिशत्रुसंस्थः शनिः प्रव्रजने मतोऽन्यैः ॥ ७ ॥ शुक्राङ्गारकमन्दानां नाभीष्टः सप्तमः शशी । तमः केतू तु दीक्षायां प्रतिष्ठावच्छुभाशुभौ ॥ ८ ॥ कलह भयजीवनाशनधनहानिविपत्तिनृपतिभीतिकरः । प्रव्रज्यायां नेष्टो भौमादियुतः क्षपानाथः ॥ ९ ॥” एवंविधे लग्ने प्रथमं दीक्षामारंभः तदा पौष्टिकं विदध्यात् महादानं च दद्यात् सर्वदर्शनानि प्रीणयेत् सर्वमार्ग| णांश्च प्रीणयेत् । तत्र सामग्री सर्वापि वधूवर्जिता वैवाहिकी संयमश्रिया सह पुरुषस्य विवाह इति लोकव्यबिहारः । तत्र ब्राह्मणः क्षत्रियो वैश्य उपनीतः पालितगार्हस्थ्यब्रह्मचर्यक्षुल्लकत्वः पूर्वेणैवोपनयनेन व्रतमर्हति । अथवा द्विजादिवर्णत्रयसंभूतः शिशुरनुपनीतोऽपि दीक्ष्यते । तस्य व्रतदानात्पूर्वसुपनयनविधिर्विधीयते । तत्र च व्रतबन्ध एवं विधेयः न व्रतानुज्ञाव्रतविसर्गगोदानविधयः व्रतबन्धे तस्य द्विजातित्वमागतं ततो व्रतानुज्ञादिदीक्षायामप्रयोगिव्रतबन्धस्तु वर्णख्यापनाय न शूद्रो दीक्षणीय इति वचनात् । तथा द्विजातिसमाचाराणां शूद्राणामपि बाल्ये क्षुल्लकत्व पालनानन्तरं वा व्रतकाले पुरुषमन्त्रेण जिनोपवीतं तस्य शिष्यं च संस्थाप्य व्रतं देयं । संस्कार एव हि पुरुषाणां चरणप्रवेशकारणं, यदुक्तं - "जन्मना जायते शूद्रः संस्काराद् ब्राह्मणो भवेत्,” अतः प्रव्रज्यां विना गार्हस्थ्ये जनापेक्षया शूद्रो नोपनयभाग भवति व्रतदाने तूपनयनमर्हति ज्ञातिगार्हस्थ्यपरित्यागात् । पुरुषमन्त्रो यथा - "ॐ अहं पुरुषस्त्वं पुरुषज्ञस्त्वं पुरुषशीलस्त्वं पुरुषान्तरस्त्वं
For Private & Personal Use Only
www.jainelibrary.org