SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आचार ॥ ७४ ॥ प्रयोगात् वर्जनीय इत्यर्थः १५ अवबद्धः परेभ्यो द्रव्यं गृहीत्वा मासवर्षादिपर्यन्तं सेवां गतः १६ भृतको वस्त्र दिनकरः 8 भोजनादिमूल्येन परस्य दास्यं गतः १७ शेषः निस्फोटितः पितृमातृगुरुमहत्तरादिभिरननुज्ञातः प्रव्रज्यां बलात्कारेण जिघृक्षुः १८ अमी अष्टादश पुरुषेषु दीक्षायां वर्जनीयाः । विंशतिः स्त्रीषु वर्ज्याः यथा - "जे अट्ठारस भेआ पुरिसस्स तहित्थिआई ते चैव । गुव्विणि सबालवत्सा दोणि इमे हुंति अन्नेवि ॥ १ ॥" बालाया अष्टादश दोषाः स्त्रीष्वपि त एव १८ गुर्विणी १ स्तनन्धयापत्यसहिता च २ दोषद्वयमीलनाद्विशतिः २० नपुंसकेषु दशादीक्षणीयाः यथा - "पंडए १ वाइए २ की ३ कुंभी ४ ईसालूइत्ति अ ५ । सव्वणि ६ तक्कमसेवीय ७ पक्कियापक्किए इअ || १ || सोगंधिए अ ९ सा सत्ते १० दस पए नपुंसगा । संकिलिङति साहूणं पत्रवावेडं न कप्पिआ ॥ २ ॥ तत्र षण्डः - " नारीस्वभावस्वरवर्णभेदो मेट्रो गरीयान् मृदुला च वाणी । मूत्रं सशब्दं च सफेनकं च एषानि षट् षण्डकलक्षणानि ॥ १ ॥” १ वाचिकः सूनलिङ्गः यस्य भगप्रवेशमात्रेण लिङ्गे श्वयथुर्भवति २ क्लीयः यस्य स्त्रीदर्शनाद्वीजं क्षरति ३ कुंभी यस्य बीजपतनकाले वृषणः कुंभवत्पीवरो भवति ४ ईर्ष्यालुः यस्य कामितस्त्रियां परपुरुषालापदर्शनमात्रेण ईर्ष्या भवति ५ शकुनिः उत्कट वेदोदयः सप्तधातुक्षयेऽपि यस्य कामोद्गमो न क्षीयते ६ तत्कर्मसेवी यस्य सर्व व्यापारान् विमुच्य Jain Education Interr १ एतेन ये महात्मानो बालान् कथमपि बोधयित्वा पित्राद्याज्ञामन्तरैव दीक्षन्ते देशान्तरं प्रेष्य दीक्षयन्ते वा त आज्ञाविराधका अनुत्साहिताः । उपदेशेऽधिकुर्वन्ति मुनयो नादेशे. For Private & Personal Use Only विभागः १ प्रव्रज्या विधिः ॥ ७४ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy