SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः१ प्रव्रज्याविधिः ॥७३॥ CANCEBCACANCYC |द्विवेलं च खाध्यायः सर्वदा पुनः॥४॥ ब्रह्मचारिसमानस्तु वेषो ब्रह्मणि गुप्तयः । शान्तेन भवतैतन्तु विधेयं मुनिवत्सदा ॥५॥ शिशूनां साधुसाध्वीनां प्रणामो न प्रणामनम् । सिद्धान्तमेकं संत्यज्य धर्मशास्त्रनियो जनम् ॥६॥ विधेया गृहिसंस्कारा व्रतारोपविवर्जिताः । शान्तिकं पौष्टिकं चैव प्रतिष्ठां च समाचरेत् ॥७॥" ४ इत्युक्त्वा ससङ्घः मूरिः "नित्थारपारगो होहि" इति भणन् तन्मस्तके वासान् क्षिपति । ततः क्षुल्लकोऽपि गुरूपदिष्टया मुनिरीत्या धर्मशास्त्रव्याख्यानं कुर्वन् विहरति वर्षत्रयमवधिः । ततः संयमस्य यथोक्तपालने प्रव्रज्या व्रतभङ्गे पुनर्गार्हस्थ्यं । इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायने क्षुल्लकत्वसंकीर्तनो नाम अष्टादश उदयः॥१८॥ एकोनविंश उदयः। अथ प्रव्रज्याविधिः। सा च प्रवचने दीक्षाग्रहणनिषिद्धानां न भवति । ते च दीक्षानिषिद्धा यथा-"अट्ठारस पुरिसेसु वीसं इत्थीसु दस नपुंसेसु । पब्वायणा अणबिहा तह वियलंगसरूवा य ॥१॥" अष्टादशभेदाः पुरुषाः पुरुषेषु विंशतिभेदाः स्त्रियः स्त्रीषु दशभेदाः षण्डा नपुंसकेषु तथा विकलाङ्गस्वरूपा एते न प्रवज्यामहन्ति । परस ॥७३ ॥ Jain Education Inte l For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy