SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ७२ ॥ Jain Education Interna त्रयावधिपालितत्रिकरणशुद्धिब्रह्मचर्यः क्षुल्लकत्व प्रव्रज्यायाददाति । खण्डितव्रतस्तु पुनर्गार्हस्थ्यमुपगच्छति । | इत्याचार्यश्रीवर्द्धमानसूरिकृते आचारदिनकरे यतिधर्मोत्तरायने ब्रह्मव्रतकीर्त्तनो नाम सप्तदश उदयः ॥ १७ ॥ अष्टादश उदयः । अथ क्षुल्लकत्वविधिः । वर्षत्रयं पालितत्रिकरणशुद्धिब्रह्मव्रतः शान्तरसप्रकृष्टबलतुलितशीलाङ्गभारः दीक्षां जिघृक्षुः ब्रह्मचारी क्षुल्लकत्वमर्हति । न केवलं पालितत्रिकरणशुद्धब्रह्मव्रतोऽप्यतुलितान्यचतुर्महाव्रतः प्रव्रज्यापालने समर्थो भवति । संयमपालनं हि ब्रह्मचर्यपालनं चतुर्महाव्रतपालनं विधाय कालक्रमेण सुकरं भवति । भगवानन्नपि प्रव्रजितुकामः सांवत्सरिकदानव्याक्षेपेन संवत्सरं महाव्रतपालनातुलनां करोति । ततो ब्रह्मव्रतपालनानन्तरं क्षुल्लकदीक्षा, यथा- पालितत्रिकरणशुद्धब्रह्मचर्यो वर्षत्रयान्ते क्षुल्लकत्वं गृह्णाति । तत्र यथा पूर्वोक्त गुणगुरुसमीपे दीक्षोपयोगितिथिवारर्क्षलग्नेषु शिष्यः कृतस्नानो मुण्डितशीर्षः शिखाधारी सोपवीतः निषद्यानिषण्णस्य गुरोः समीपे धृतमुखवस्त्रिकः प्रतिक्रान्तेर्यापथः क्षमाश्रमणपूर्व भणति - "भयवं इच्छाकारेण तुम्भे अनं पंचमहाव्वयाणं अवहिआरोपणं उद्दिसह ।” गुरुर्भणति - "आदिसामि ।" ततः क्षुल्लकत्वालापेन For Private & Personal Use Only विभागः १ क्षुल्लकत्व विधिः ।। ७२ ।। www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy