________________
Jain Education Internal
कुर्यात् । चैत्यवन्दनं दण्डको चारक्षमाश्रमणादि सर्व पूर्ववत् । ततस्तां सर्वा पूर्वोक्तक्रियां निर्वर्त्य गुरुः श्राद्वस्य परमेष्ठिमत्रत्रयभणनपूर्वमिति दण्डकमुच्चारयेत् — “करेमि भंते सामाइयं सावज्जं जोगं पञ्चक्खामि जावनियमं पज्जूवासामि दुविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवैमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि सव्वं मेहुणं पञ्चखामि जावनियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करे० शेषं पूर्ववत् । इत्युक्त्वा "नित्थारग पारगो होहि" इति भणन् गुरुर्वासान् क्षिपति ससङ्घः । ततो गुरुर्निषयासीनः पुरःस्थस्य ब्रह्मचारिण उपदेशं ददाति यथा - "स्त्रीषण्ढपशुमद्वेश्यासन कुड्यान्तरोज्झनात् । सरागस्त्रीकथा त्यागात् प्रोज्झितस्मृतिवर्जनात् ॥ १ ॥ स्त्रीरम्याङ्गेक्षणखाङ्गसंस्कार परिवर्जनात् । प्रणीतात्यशनत्यागाद्ब्रह्मचर्ये तु भावयेत् ॥ २ ॥ न कार्यों भवता स्त्रीभिः संभाषो रागसंयुतः। शयनासन कार्यादि न कार्य गृहिवेश्मसु ॥ ३ ॥ अन्यनिन्दोपहासौ च वर्जनीयौ निरन्तरम् । धायै सदा त्वया मौनं स्वाध्यायकरणं विना ॥ ४ ॥ भोक्तव्यमन्यगेहेषु प्रायः सचित्तवर्जनम् । धार्य कौपीनमनिशं मुञ्जमेखलयान्वितम् ॥ ५ ॥ नैव कार्योऽङ्गसंस्कारो न धायें भूषणादि च । एकं प्रच्छादनं मुक्त्वा न धार्यमपरं बहु ॥ ६ ॥ मौनं द्विरावश्यकं च स्त्रीसङ्गस्य विवर्जनम् । जिनार्चनं त्रिकालं च कुर्याद्वर्षत्रयावधि ॥ ७ ॥ सचितादिपरित्यागो नास्ति प्रायो व्रतेऽत्र च । केवलं ब्रह्मचर्यस्य धारणं परमिष्यते ॥ ८ ॥ इत्युक्त्वा वासान् क्षिपति । ततो ब्रह्मचारी शिखा सूत्रकौपीनप्रावरणधारी मौनी शुभध्यानरतो वर्षत्रयं विहरति । तत्र वर्ष
For Private & Personal Use Only
M +
www.jainelibrary.org