________________
ख्यानं अनादिभवस्थितिव्याख्यानं अनशनफलव्याख्यानं सर्वदा करोति । सो गीतनृत्यागृत्सवं करोति ।। ग्लानो जीवितमरणेच्छां परित्यज्य समाधिना परितिष्ठति । ततोऽन्तर्मुहर्ते समायाते ग्लान: "सव्वं आहारं सव्वं देहं सव्वं उवहिं वोसिरामि” इति भणति । ततः प्रान्ते ग्लानः पश्चपरमेष्ठिस्मरणश्रवणयुक्तः शरीरं | त्यजति । इत्यन्तसंस्कारे अनशनविधिः । मरणकाले ग्लानः कुसशय्यायां स्थाप्यो जन्ममरणे भूमावेव इति व्यवहारः। अथ सर्वभावभोक्तरि कर्मयोक्तरि चेतनारूपे जीवे गते अजीवपुदलस्य तच्छरीरस्य सनाथता-15 ख्यापनार्थ तत्सुतादीनां कृतार्थ तीर्थ संस्कारविधिरुच्यते-स यथा ब्राह्मणस्य सर्वस्य शिखावर्जितं शिरः कूर्चमुण्डनं केचित् क्षत्रियवैश्ययोरपि वदन्ति । तथा शवसंस्कारः सर्वैरपि स्ववर्णज्ञातिभिर्विधेयः तत्स्पों विधेयोऽन्यवर्णज्ञातिभिः। ततो गन्धतैलादिभिः शवं सुष्टुगन्धोदकैश्च लपयेत् । गन्धैः कुङ्कमादिभिर्विलेप-18 येत् मालाभिरर्चयेत् खखकुलोचितैर्वस्त्राभरणैर्मण्डनैर्भूषयेत् । शूद्रप्रकृतीनां सर्वथा न मुण्डनं । ततो नवकल्पितकाष्ठशय्यायां निष्पाद्यायां शुकसंस्तीर्णायां सुवस्त्रच्छन्नायां शवं स्थापयेत् सह शय्योपकरणैः । अत्रास्य गृहिणो मृत्युनक्षत्रस्य नक्षत्रपुत्रकविधानं कुशसूत्रादिभिर्यतिवद् ज्ञेयं । नवरं कुशपुत्रका गृहस्थवेषधराः कार्याः वर्णानुसारेण तदुपरि नानाविधवस्त्रसुवर्णमणिविचित्रं वस्त्रकृतं प्रासादं स्थापयेत् । ततः खज्ञातीयाश्चत्वारः परिजनैः सह स्कन्धोढं शवं श्मशानं नयन्ति । तत्रोत्तराभागस्थशिरसं शवं पुत्रादयश्चि-10 तामारोप्य वहिना संस्कुर्वन्ति । “अनन्नभोजिबालानां भूमिसंस्कार इष्यते । गृहिणामग्निसंस्कारः सर्वेषा
+-+-MARCASMARAKAR
Jan Education Intern
For Private & Personal Use Only
Colwww.jainelibrary.org