SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ % % 12 - SR.AAR.KA4%AA%E दापि ॥३॥" इति सर्वकरणीयान्ते जिनप्रतिमादेवादिविसर्जनविधिः । अहंदर्चनविधावपि एवं विसर्जन जयं । इति लघुस्नात्रविधिः । “ततो देवगृहं गत्वा स्तोत्रैः शक्रस्तवादिभिः स्तुत्वा जिनं पूजयित्वा प्रत्याख्यानं विचिन्तयेत् ॥ १ ॥ चैत्यं प्रदक्षिणीकृत्य गत्वा पौषधमन्दिरम् । साधून देववदानन्दान्नमस्येत्पूजयेत्सुधीः॥ २ ॥ शृणुयादेकचित्तः संस्तन्मुखाद्धर्मदेशनाम् । प्रत्याख्यानं ततः कृत्वा गुरूं नत्वा धनार्जनम् ॥ ३॥ कर्मादानानि संत्यज्य यथास्थानं समाचरेत् । सर्वापि नययुक्तिस्तु व्रतबन्धादिशिक्षणात्॥४॥ विधेयं कुत्सितं कर्म प्राणनाशेऽपि नाचरेत् । ततो गृहेऽहतः पूजां विधाय सलिलाशने ॥५॥ दत्वा सभक्ति साधुभ्यः पूजयित्वातिथीनपि । दीनान संतोष्य भुञ्जीत भोज्यं व्रतकुलोचितम् ॥ ६॥ (साध्वामन्त्रणं यथा । क्षमाश्रमणपूर्व गृही कथयति-"भगवन्, फासुएणं एसणिजेणं असणेणं भयवं मम घरे अणग्गहो कायब्बो”) ततः शास्त्रविचारं च विधाय गुरुसन्निधौ । कृत्वार्थोपार्जनं सङ्ख्यापूजां कृत्वा ततो गृहे ॥ ७॥ मुहूर्ते भावदस्ता भुञ्जीत निजवाञ्छया। सायं सामायिकं कृत्वा प्रतिक्रमणमाचरेत् ॥ ८॥ धर्मागारे ततो वेश्म निजमागत्य शान्तधीः । गते निशाचतुर्भागे पठित्वात्स्तवादिकम् ॥९॥ धृतब्रह्मवतः प्रायो निद्रासुखमुपाहरेत् । निद्रान्ते परमेष्ट्याख्यमन्त्रस्मरणपूर्वकम् ॥१०॥ जिनचयईचत्र्यादिचरितानि विचिन्तयेत् । मनोरथं व्रतादीनां कुर्यान्निजनिजेच्छया ॥११॥ इत्याहोरात्रिकी चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुद्ध्यति ॥ १२ ॥ इति व्रतारोपसंस्कारे गृहिणां दिनरात्रिचर्या । S CAS Jan Education Inter For Private & Personal Use Only H ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy