SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ।। ६५ ।। Jain Education Inter भिक्षुर्भवन्नपि स वर्मणि देवदृष्यमेकं दधाति वचनेन सुरासुराणाम् ॥ १ ॥” इति वस्त्रपूजा । ततो नानाविधखाद्यपेय चूष्यले ह्यसंयुतं नैवेद्यं स्थानद्वये विधाय एक पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठः - " सर्वप्रधान सद्भूत देहि देहं सुपुष्टिदं । अन्नं जिनाग्रे रचितं दुःखं हरतु नः सदा ॥ १ ॥” इति जलचुलुकेन प्रतिमाया नैवेद्यदानं । ततो द्वितीयपात्रे श्लोकपाठः- “भो भोः सर्वे ग्रहा लोकपालाः सम्यग्दृशः सुराः । नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥ १ ॥” इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानं । लपनं विनापि पूजायां जिनप्रतिमानैवेद्यदानमनेनैव मन्त्रेण । तत आरात्रिकं मङ्गलदीपश्च पूर्ववत् शक्रस्तवश्च । यस्याः प्रतिमायाः स्नानस्थितायाः स्वपनं भवति तस्याः सर्वमपि तत्रैव क्रियते - "श्रीखण्डकर्पूरकुरङ्गनाभिप्रियङ्गुमांसीनतकाकतुण्डैः । जगत्रयस्याधिपतेः सपर्याविधौ विदध्यात्कुशलानि धूपः ॥ १ ॥ अनेन वृत्तेन सर्वपुष्पाञ्जलीनामन्तराले धूपोत्क्षेपः शक्रस्तवस्य पाठः । प्रतिमाविसर्जनं यथा- “ॐ अर्ह नमो भगवते अर्हते समये पुनः पूजां प्रतीच्छ स्वाहा” इति पुष्पन्यासेन प्रतिमाविसर्जनं । “ॐ ह्रः इन्द्रादयो लोकपालाः सूर्यादयो ग्रहाः सक्षेत्रपालाः सर्वदेवाः सर्वदेव्यः पुनरागमनाय स्वाहा ।" इति पुष्पपूजादिभिर्दिक्पालग्रहविसर्जनं । ततः - " आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत्कृतम्। तत्सर्वं कृपया देवाः क्षमन्तु परमेश्वराः ॥१॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वमेव शरणं मम ॥ २ ॥ कीर्त्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किञ्चन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं त्वद्दासतां मां नय सर्व For Private & Personal Use Only विभागः १ व्रतारोप. ॥ ६५ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy