________________
Jain Education Inter
रथ विक्रममन्दिर । सिंहिकासुत पूजायामत्र सन्निहितो भव ॥ १ ॥ ॐ राहो इह० पूर्ववत् । ४ । शनिं प्रति वृत्तं - " फलिनीदलनील लीलयान्तः स्थगित समस्तवरिष्ठविषजात । रचितनय नय प्रबोधमेतान् जिनपूजाकरणैकसावधानान् ॥ १ ॥ ॐ शने इह० पूर्ववत् । ५ । चन्द्रं प्रति द्रुतविलंबितवृत्तपाठः - "अमृत| वृष्टिविनाशितसर्वदोपचितविघ्नविषः शशलाञ्छनः । वितनुतां तनुतामिह देहिनां प्रसृततापकरस्य जिना - चैने ॥ १ ॥ ॐ चन्द्र इह० पूर्ववत् । ६ । बुधं प्रति वृत्तं - " बुध विबुधगणार्चितांत्रियुग्म प्रमथितदैत्य विनीतदुष्टशास्त्र | जिनचरणसमीपगोऽधुना त्वं रचय मतिं भवघातनप्रकृष्टाम् ॥ १ ॥ ॐ बुध इह० पूर्ववत् । गुरुं प्रति वृत्तं - "सुरपतिहृदयावतीर्ण मन्त्र प्रचुरकलाविकलप्रकाशभाखन् । जिनपत्तिचरणाभिषेककाले कुरु वृहतीवर विनविप्रणाशम् ॥ १ ॥ ॐ गुरो इह० पूर्ववत् । ८ । केतुं प्रति द्रुतविलंबितवृत्तपाठः- “निजनिजोदययोगजगत्त्रयी कुशलविस्तरकारणतां गतः । भवतु केतुरनश्वरसंपदां सततहेतुरवारितविक्रमः ॥ ९ ॥ ॐ केतो इह० पूर्ववत् । ९ । क्षेत्रपालं प्रति आर्या - " कृष्णसितकपिलवर्णप्रकीर्णकोपासितांत्रियुग्म सदा । श्रीक्षेत्रपाल पालय भविकजनं विघ्नहरणेन ॥ १ ॥ ॐ क्षेत्रपाल इह० पूर्ववत् ॥ १० ॥ इति ग्रहक्षेत्रपाल पूजा | विद्यादेवताशासनयक्षयक्षिणी सुरलोकाधिपतिपूजनं वृहत्स्नात्रविधौ कथयिष्यते प्रतिष्ठाशान्तिकपौष्टिको पयोगित्वात् । ततो जिनप्रतिमाया गन्धपुष्पाक्षतधूपदीपपूजा पूर्वमन्त्रैरेव । ततः करे वस्त्रं गृहीत्वा वसन्ततिलकावृत्तपाठः – “ त्यक्ताखिलार्थवनितासुतभूरिराज्यो निःसङ्गतामुपगतो जगतामधीशः ।
For Private & Personal Use Only
www.jainelibrary.org