________________
Jain Education Intern
नैवेद्यं गृहाण २ विघ्नं हर २ दुरितं हर २ शान्ति कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ वृद्धिं कुरु २ खाहा ।” इति पुष्पगन्धादिभिरिन्द्रपूजनं १ अग्निं प्रति व्यपच्छंद सिकवृत्तपाठः - " बहिरन्तरनन्ततेजसा विदधत्कारणकार्यसङ्गतिम् । जिनपूजन आशुशुक्षिणे कुरु विप्रतिघातमञ्जसा ॥ १ ॥ ॐ अग्ने इह० पूर्ववत् २ यमं प्रति वसन्ततिलकापाठ: - "दीसाञ्जनप्रभ तनोतु च सन्निकर्ष वाहारिवाहन समुद्धर दण्डपाणे । सर्वत्र तुल्यकरणीय करस्थधर्म कीनाश नाशय विपद्विशरं क्षणेऽत्र ॥ १ ॥ ॐ यम इह० शेषं पूर्ववत् । ३ निर्ऋति प्रति | आर्या पाठ: - " राक्षसगणपरिवेष्टित चेष्टितमात्रप्रकाशहतशत्रो । स्नात्रोत्सवेऽत्र निर्ऋते नाशय सर्वाणि दुःखानि ॥ १ ॥ ॐ निर्ऋते इह० पूर्ववत् । ४ । वरुणं प्रतिस्रग्धरावृत्तपाठः - " कल्लोलानीतलोलाधिककिरणगणस्फीतरत्नप्रपञ्चोद्भूतौर्वाग्निशोभं वरमकरमहापृष्ठदेशोक्तमानम् । चञ्चचीरलिशृङ्गिप्रभृतिझषगणै| रञ्चितं वारुणं नो वर्ष्म च्छिन्द्यादपायं त्रिजगदधिपतेः स्नात्रसत्रे पवित्रे ॥ १ ॥ ॐ वरुण इह० पूर्ववत् । ५ । वायुं प्रति मालिनीवृत्तपाठः । “ध्वजपटकृत कीर्त्तिस्फूर्त्तिदीप्यद्विमानप्रसृमरबहुवेग त्यक्तसर्वोपमान । इह जिनपतिपूजासन्निधौ मातरिश्वन्नपनय समुदायं मध्याह्यातपानाम् ॥ १ ॥” ॐ वायो इह० पूर्ववत् । कुबेरं प्रति वसन्ततिलकावृत्त पाठः । “कैलाशवासविलसत्कमलाविलाससंशुद्ध हा सकृतदौस्थ्यकथानिरास । श्रीमत्कुबेर भगवन् स्नपनेऽत्र सर्वविघ्नं विनाशय शुभाशय शीघ्रमेव ॥ १ ॥” इति कुबेर इह० पूर्ववत् ॥ ७ ॥ ईशानं प्रति वसन्ततिलकापाठः – “गङ्गातरङ्गपरिखेलनकीर्णवा रिप्रोद्यत्क पर्दपरिमण्डितपार्श्वदेशम् । नृत्यं
For Private & Personal Use Only
www.jainelibrary.org