SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आचार 31"जन्मन्यनन्तसुखदे भुवनेश्वरस्य सुत्रामभिः कनकशैलशिरशिलायाम् । स्नात्रं व्यधायि विविधांवधिदिनकरः कृपवापीकासारपल्बलसरित्सलिलैः सुगन्धैः ॥ १ ॥ तां बुद्धिमाधाय हृदीह काले लानं जिनेन्द्रप्रतिमागणस्य । कुर्वन्ति लोकाः शुभभावभाजो "महाजनो येन गतः स पन्थाः" ॥२॥” इति पुष्पाञ्जलिक्षेपः। ततो वृत्तं-"परिमलगुणसारसद्गुणाढ्या बहुसंसक्तपरिस्फुरद्विरेफा । बहुविधबहुवर्णपुष्पमाला वपुषि जिनस्य दाभवत्वमोघयोगा ॥१॥” अनेन वृत्तेन आपादान्तशिरोऽन्तं जिनप्रतिमायां पुष्पारोपणं । "कर्पूरसिल्हाधि." अनेन धूपोत्क्षेपः शक्रस्तवपाठः । पुनः पुष्पाञ्जलिं करे गृहीत्वा शार्दूलोपजाती पठेत्-"यः साम्राज्यपदोन्मुखे भगवति वर्गाधिपैगुंफितो मन्त्रित्वं बलनाथतामधिकृतिं स्वर्णस्य कोशस्य च । बिभ्रदूभिः कुसुमाञ्जलिविनिहितो भक्त्या प्रभोः पादयोर्दुःखौघस्य जलाञ्जलिः स तनुतादालोकनादेव हि ॥१॥" चेतः समाधातुमतीन्द्रियार्थ पुण्यं विधातुं गणनाव्यतीतं । निक्षिप्यतेऽहत्प्रतिमापदाग्रे पुष्पाञ्जलिः प्रोद्गतभक्तिभावैः ॥२॥” इति पुष्पाञ्जलिक्षेपः । सर्वेषां पुष्पाञ्जलीनामन्ते शक्रस्तवपाठः कर्त्तव्यः । एवं धूपोत्क्षेपश्च । ततोऽनन्तरं पुष्पादिभिः प्रतिमा पूज्यते । ततः स्लात्रकलशप्रगुणीकरणं । ततः कलशास्तु मणिस्वर्णरूप्यता म्रमिश्रधातुमृण्मयाः ते च नात्रचतुष्किकोपरिस्थाप्याः तेषु सर्वजलाशयोदकानि गङ्गोदकमिश्राणि निवेनाशयेत् । चन्दनकुङ्कुमकर्पूरादिभिः सुगन्धद्रव्यैर्वासयेत् । चन्दनादिभिः कुसुममालाभिः कलशान् पूजयेत् । जलपुष्पाद्यभिमन्त्रणमन्त्रास्ते पूर्वोदिता एव । ततः स एकः श्राद्धोऽन्येऽपि च बहवः पूर्वोदितवेषशौचभाजो * |॥६२॥ Jan Education in INU For Private & Personal Use Only |www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy