SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ विनापि लोकोत्तरं किमपि दृष्टिसुखं ददाति ॥ २ ॥” इति प्रतिमायाः कलशाभिषेकः । पुष्पालङ्कारादीनामवतारणं । ततः पुनः पुष्पाञ्जलिं गृहीत्वा वृत्तद्वयं पठेत्-"विश्वानन्दकरी भवाम्बुधितरी सर्वापदां कर्तरी मोक्षाध्वैकविलङ्घनाय विमला विद्या परं खेचरी । दृष्टयुद्भावितकल्मषापनयने बद्धप्रतिज्ञा दृढं रम्याईत्प्रतिमा तनोतु भविनां सर्व मनोवाञ्छितम् ॥१॥ परमतररमासमागमोत्थप्रसमरहर्षविभासिसन्निकर्षा । जयति जगदिनस्य शस्यदीप्तिः प्रतिमा कामितदायिनी जनानाम् ॥ २॥” इति पुनः पुष्पाञ्जलिक्षेपः । पुनः | पूर्वोक्तवृत्तेन धूपोत्क्षेपः शक्रस्तवपाठः । पुनः पुष्पाञ्जलिं करे गृहीत्वा पृथ्वीमन्दाक्रान्तारूपं वृत्तद्वयं पठेत्-"न दुःखमतिमात्रकं न विपदां परिस्फूर्जितं न चापि यशसां क्षतिनं विषमा नृणां दुःस्थता। न चापि गुणहीनता न परमप्रमोदक्षयो जिनार्चनकृतां भवे भवति चैव निःसंशयम् ॥१॥ एतत्तत्वं परममसमानन्दसंपन्निदानं पातालौकासुरनरहितं साधुभिः प्रार्थनीयम् । सर्वारंभोपचयकरणं श्रेयसां सन्निधानं साध्यं सर्वैर्विमलमनसा पूजनं विश्वभर्तुः ॥२॥” इति पुनः पुष्पाञ्जलिक्षेपः । ततो धूपं करे गृहीत्वा शार्दूलायावृत्तद्वयं पठेत्-"कर्पूरागरुसिल्हचन्दनबलामांसीशशैलेयकश्रीवासद्रुमधूपरालघुमृणैरत्यन्तमामोदितः । व्योमस्थः प्रसरच्छ शाङ्ककिरणज्योति प्रतिच्छादको धूमो धूपकृतो जगत्रयगुरोः सौभाग्यमुत्तंसतु Plu१॥ सिद्धाचार्यप्रभृतीन् पञ्चगुरून् सर्वदेवगणमधिकम् । क्षेत्रे काले धूपः प्रीणयतु जिनार्चना४ा रचितः॥ २ ॥” इति धूपोत्क्षेपः शक्रस्तवपाठश्च । पुनः पुष्पाञ्जलिं गृहीत्वा वसन्ततिलकोपजाती पठेत् । Jan Education Internet For Private & Personal Use Only T ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy