SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ६१ ॥ Jain Education Inter यद्विश्वाधिपतेः समस्ततनुभृत्संसारनिस्तारणे तीर्थे पुष्टिमुपेयुषि प्रतिदिनं वृद्धिं गतं मङ्गलम् । तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामर्हतां भूयान्मङ्गलमक्षयं च जगते स्वस्त्यस्तु सङ्घाय च ॥ ४ ॥” इति वृत्तचतुष्टयेन मङ्गलप्रदीपोल्लासः । ततः शक्रस्तवपाठः । इति जिनार्चनविधिः । अथ कञ्चनापि श्राद्धो निर्भराईद्भक्तिर्नित्यं पर्वणि कार्यान्तरे वा जिननात्रं चिकीर्षति तस्य चायं विधिः । पूर्वस्नात्रपीठे पूर्वोक्तप्रकारेण दिकपालग्रहान्यदेवतापूजन वर्जितेन जिनप्रनिमां संपूज्य तथारात्रिकं विधाय मङ्गलदीपवर्जितं श्राद्धः पूर्वोपचारयुक्तो गुरुसमक्षं स मिलिते चतुर्विधे गीतवाद्याद्युत्सवे पुष्पाञ्जलिं करे गृहीत्वा - " नमो अरिहंताणं नमोऽर्हसिद्धा० वृत्तद्वयं शार्दूलमालिनीरूपं ( पठेत् ) "कल्याणं कुलवृद्धिकारि कुशल श्लाघामत्यद्भुतं सर्वाघप्रतिघातनं गुणगणालङ्कारविभ्राजितम् । कान्तिश्रीपरिरंभणप्रतिनिधिप्रख्यं जयत्यर्हनां ध्यानं दानवमानवैर्विरचितं सर्वार्थसिद्धये ॥ १ ॥ भुवनभवनपापध्वान्तदीपायमानं परमतपरिघातप्रत्यनीकायमानम् । धृनिकुवलयनेत्रावश्यमन्त्रायमाणं जयति जिनपतीनां ध्यानमभ्युत्तमानाम् ॥ २ ॥” इति पुष्पाञ्जलिक्षेपः । “कर्पूरसिल्हाधिककाकतुण्ड कस्तूरिका चन्दननन्दनीयः । धूपो जिनाधीश्वरपूजनेऽत्र सर्वाणि पापानि दहत्वजत्रम् ॥ १ ॥” | अनेन वृत्तेन सर्वपुष्पाञ्जल्यन्तराले धूपोत्क्षेपः शक्रस्तवपाठश्च । ततो जलकलशं गृहीत्वा श्लोकवसन्तति|लके पठेत् - "केवली भगवानेकः स्याद्वादी मण्डनैर्विना । विनापि परिवारेण वन्द्यते प्रभुतोर्जितः ॥ १ ॥ तस्येशितुः प्रतिनिधिः सहजश्रियाढ्यः पुष्पैर्विनापि हि विना वसनप्रतानैः । गन्धैर्विना मणिमयाभरणै For Private & Personal Use Only विभागः १ व्रतारोप. ॥ ६१ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy