________________
आ. दि. ११
Jain Education Intern
योर्जिनस्य । क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलिर्यः स प्रीणयत्वनुदिनं सुधियां मनांसि ॥ २ ॥ देवेन्द्रः कृतकेवले जिनपतौ सानन्दभक्त्यागतैः सन्देहव्यपरोपणक्षम शुभव्याख्यानबुद्धाशयैः । आमोदान्वित पारि| जातकुसुमैर्यत्खामिपादाग्रतो मुक्तः स प्रतनोतु चिन्मयहृदां भद्राणि पुष्पाञ्जलिः ॥ ३ ॥” इति वृत्तत्रयेण पुष्पाञ्जलित्रयक्षेपः । " लावण्यपुण्याङ्गभृतोऽर्हतो यस्तद्दृष्टिभावं सहसैव धत्ते । स विश्वभर्तुलवणावतारो गर्भावतारं सुधियां विहन्तु ॥ १ ॥ लावण्यैकनिधेर्विश्वभर्त्तुस्तद्वृद्धिहेतुकृत् । लवणोत्तारणं कुर्याद्भवसाग रतारणम् ॥ २ ॥” इति वृत्तद्वयेन द्विवेलं लवणोत्तारणं । “सक्षारतां सदासक्तां निहन्तुमिव सोद्यमः । लवणान्धिलवणां मिषात्ते सेवते पदौ ॥ १ ॥” इति लवणमिश्रपानीयोत्तारणं । “भुवनजनपवित्रताप्रमोदप्रणयनजीवनकारणं गरीयः । जलमविकलमस्तु तीर्थनाथक्रम संस्पर्श सुखावहं जनानाम् ॥ १ ॥” अनेन केवलजलप्रक्षेपः । "सप्तभीतिविघातार्ह सप्तव्यसननाशकृत् । यत्सप्तनरकद्वार सप्ताररि (ति) तुलां गतम् ॥ १ ॥ सप्ताङ्गराज्यफलदान कृतप्रमोदं तत्सप्ततत्वविदनन्तकृतप्रबोधम् । तच्छक हस्तधृत सङ्गत सप्तदीपमारात्रिकं भवतु सप्तमसद्गुणाय ॥ २ ॥” इति आरात्रिकावतरणं । “विश्वत्रय भवैजवैः सदैवासुरमानवैः । चिन्मङ्गलं श्रीजि - नेन्द्रात्प्रार्थनीयं दिने दिने ॥ १ ॥ यन्मङ्गलं भगवतः प्रथमार्हतः श्रीसंयोजने प्रतिबभूव विवाहकाले । सर्वासुरासुरवधूमुखगीयमानं सप्तर्षिभिश्च सुमनोभिरुदीर्यमाणं ॥ २ ॥ दास्यं गतेषु सकलेषु सुरासुरेषु राज्येऽहेतः प्रथमसृष्टिकृतो यदासीत् । सन्मङ्गलं मिथुनपाणिगतीर्थवारिपादाभिषेकविधिना न्युपचीयमानम् ॥ ३ ॥
For Private & Personal Use Only
www.jainelibrary.org